________________
NReminine
महावृत्तिसहितम् । द इति किम् । असाक्षीत् । कित्वे सृजिशोरमागमो न स्यात् । वव्रजेत्यादिनैप। इक इत्येव । अया । यक्षोष्ट । जिः प्रसज्येत । हलन्तादित्येव । अचेष्ठ । चेषीषु । एम्न स्यात् । झलादिरित्येव । अवति । वर्तिषीष्ट । एम्न स्यात् ॥
उः॥८६॥ अर्तेाख्यानादग्रहणम् । ऋवर्णान्ताडोः परी सि लिडौ दे झलादी कितौ भवतः । अकृत । अहृत । कृषीष्ट । द्विमात्रस्य । अस्तीष्टम् । स्तोर्षीष्ट । लिङयोर्द इत्यनि पक्षे इष्टव्यम् । झलादिरित्येव । अस्तरिष्ट । स्तरीषीष्ट ॥
गमा वा ॥ ८ ॥ गहों परौसिलिङी दे झलादी वा किती भवतः। समगत । वा गमः कित्वे अनुदात्तापदेशेत्यादिना खं प्राद्गोरिति सेः खम् । पते समगस्त । सङ्गंसीष्ट ।
हनः सिः ॥८॥ हन्ते?ः परः सिकिद्भवति । आहत । आहसाताम् । आहसत।से कित्वान्ङस्य खम् । अन्यथा अनिदित इति उङः खस्य प्रतिषेधः स्यात् । पुनः सिग्रहणं लिङ्निवृत्त्यर्थम् । दग्रहणमनुवर्तते । एवं नित्या वधादेश इति इह प्रयोजनं नास्ति ॥
यमः सूचने ॥ ८६ ॥ यमेझैः सूचनेऽर्थे वर्तमानात्परः सिर्दै किद्भवति ॥ सूचनं गन्धनमाविष्करणमित्यर्थः। उदायता उदायसाताम् । उदायसत । अकर्मकत्वे प्राडो यमहन इति दः । सूचन इति किम् । आयस्त कूपाद्रज्जुम् । सकर्मकत्वे समुदायमा ग्रन्थ इति दः॥