________________
जैनेन्द्रव्याकरणम् |
४५
1
वर्तते । इगन्ताडोः परो कलादिः सन्किद्भवति । सामर्थ्यात्सन्निहितस्य घोरिका तदन्तविधिः । चिचीषति । निनोषति । रुरूषति । चिकीर्षति । लुलूषति । यदि सनि सिद्ध
1
दोत्ववचनसामर्थ्यान्प्रात्रिकद्विमात्रिकयेोरेबभावः इत्यस्यानर्थक्यम् । शिखमपि तर्हि न स्यात् ज्ञीप्सति । एतस्मिंस्तु सति चिचीषत्यादिषु सावकाशं दत्वं परत्वारिणखेन बाध्यते । झलादिरिति किम् । शिशयिषते । इक इति किम् । पिपासति । सनीत्येव । कर्ता ॥
हलन्तात् ॥ ८४ ॥
सन् झलिक इति वर्तते । अन्तशब्दः समीपवचनः । इकोऽन्तः समीपो यो हल् तदन्ताडोलादिः सन्किद भवति । विभित्सति । बुभुत्सते । विवृत्सति । अन्तग्रहणं किम क्षति । जिर्न भवति । नात्रेक्समीपाडलः परः सन् । एवं वा सूत्रार्थः । इकः परो हलन्तो हलवयवो यो धुस्तस्मादुत्तरो भलादिः सन्किद्भवति । अन्तग्रहणं स्पष्टार्थमुक्तमस्मिन् व्याख्याने । इक इति का निर्देशः किम् । यिय क्षति । झलित्येव । विवर्द्धिषते । निरेकाजनाङित्यत्र एकग्रहणं ज्ञापकमुक्तमन्यत्र वर्णग्रहणे जातिग्रहणमिति । तेनेह हलग्रहणेन भिन्नेष्वभिन्ना भिधानप्रत्ययनिमित्तं हल जातिर्गृह्यते । ततो विप्सतीति सिद्धम् ॥
सिलिङ्दे ॥ ८५ ॥
सन्निति निवृत्तम् । झलिकः हलन्तादिति च वर्तते । सिव लिङ च दे इको हलन्तात्परौ झलादी कितौ भवतः । सेरेव दपरत्वं विशेषणं न लिङोऽसम्भवात् । द एव हि लिङ् झलादिः । अभित । अबुद्ध । भित्सीष्ट । भुत्सीष्ट ।