________________
४४
महावृत्तिसहितम्
देभुः । परिषस्वजे । परिषस्वजाते । समोधे । समीधाते ।
1
समोधिरे ॥
मृडमृदगुधकुषवदवसः क्त्वा ॥ ८० ॥ मृडमृदगुधकुषवदवस इत्येतेभ्यः परः क्त्वा त्यः किद्भवति । मृडित्वा । मृदित्वा गुधित्वा । कुषित्वा । उदित्वा । उषित्वा । सिडे विधिरारभ्यमाणो नियमार्थः । तुल्यजातीयस्य च नियमः सेद् क्त्वा तुल्यजातीयः । तेन मृडादिभ्य एव क्त्वा सेट किद्भवति नान्येभ्यः । देवित्वा । वर्तत्वा । सेडिति विशेषणं किम् । भुक्त्वा । मुक्त्वा । मृडादिभ्यः क्त्वैव किद्भवति इति विपरीतो नियमो नाशङ्कनीयः । एवं हि क्लिश इति कित्त्ववचनमनर्थकं स्यात् । प्रतिषेधाभावात् । गुधिकुष्यास्तु व्युङोवोहलः संश्चेति विकल्पे प्राप्ते नित्यार्थः पाठः ॥
क्लिशः ॥ ८१ ॥
परः क्त्वा सेट किद्भवति । क्लिशित्वा । पूर्वेण नियमेन कित्वे निवर्तिते व्युङोवाहलः संश्चेति विकल्पः प्राप्तः । पूर्वे सूत्रे इष्टताऽवधारणार्थं योगान्तरम् । मुषग्रहिरुदविदः संश्च ॥ ८२ ॥
मुषग्रहिरुदविद इत्येतेभ्य परः संश्च क्त्वा च सेट् किद्भवति । मुमुषिषति । जिघृक्षति । रुरुदिषति । विविदिति । मुषित्वा । गृहीत्वा । रुदित्वा । विदित्वा । ग्रहे डादिनियमान्निवृत्तौ विध्यर्थमितरेषां व्युङोवाहलः संचे ति विकल्पे प्राप्ते वचनम् ॥
झलिकः ॥ ८३ ॥
क्त्वेति निवृत्तम् । अन्तेनेतादिरित्यत आदिरिति