________________
जैनेन्द्रव्याकरणम् ।
Rameram
ROADrammaNapan
ananesameramananda
HamalayaAIResome
गृष्टि हृष्टि हलि वालि विद्वक्रादि अजवस्ति मित्रयोरपत्यं मैत्रेयः । श्रेणिहत्यादिना यकारादेः खं निपात्यते । बहुषु यस्कादिभ्यो वृद्ध इति उप । मित्रयवः ।
क्षत्राद्घः ॥ १२४ ॥ क्षत्रशब्दादपत्ये वा भवति । क्षत्रस्यापत्य क्षत्रियः । जाताभिधानम् । अन्यत्र क्षात्रिः ।
राजश्वसुराद्यः ॥ १२५ ॥ राजश्वसुरशब्दाभ्या अपत्ये यो भवति राज्ञोऽपत्यं राजन्यः । इहापि जाताभिधानम् । राजनोऽन्यः । श्वसुरस्यापत्य स्वसुर्यः । ख्यातस्य सम्बन्धवचनस्य प्रेक्षणात सधाया स्वासुरिः।
कुलाड्ढकञ्च ॥ १२६ ॥
कुलशब्दादपत्ये ढकन् भवति । यश्च कुलस्यापत्यं कौलेषकः । कुल्यः । इहापि भवति ईषदसिद्ध कुल बहुकुलं | वासुपाबहुप्राकुरिति बहुत्य. बहुकुलस्यापत्यं बाहुकुलेयकः । बहुकुल्यः ।
खः ।। १३७ ॥ कुलशब्दान् खश्च भवति । कुलीनः । उत्तरत्र खस्यानुकृत्तिर्यथा स्यादिति योगविभागः ।
सादेः ॥ १२८ ॥ सह प्रादिना वर्तते इति सादिः । सादेः कुलशब्दात खो भवति। माढ्यकुलीनः । राजकुलीनः। सत्रियकुलीनः ।। |सत्यविधौ तदन्तविधिरितिपूर्वेण न सिद्धपति।
dowmme