________________
NE
महावृत्तिसहितम् ।
हरिताद्यजः ॥८॥ हरितादिर्विदाद्यन्तर्गणः । हरितादिभ्यः अजन्तेभ्यः फण भवति । इजोऽपवादः । इह वृद्धग्रहण मनुवर्तमान मजो विशेषणं वृद्ध यो ऽज विहितः तदन्तात् फण एक इतिनियमानि द्रष्टव्यः । हरितस्यापत्यं युवा हारितायनः । कैंदा. सायनः ।
यजिजोः ॥ ८ ॥ ___ अत्रापि वृद्धग्रहण यजिजोर्विशेषणं वृद्ध विहितौ यौ | यजिजौ तदंतात्फण भवति । सामर्थ्यायनीति ज्ञातव्यम् । गार्यायणः । दाक्षायणः । इह गार्या अपत्यं गार्गय इति लिंगविशिष्टस्य ग्रहणेऽपि परत्वाढण् भवति ।
सरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ ७ ॥
वृद्ध इति वर्तते । सरदत् शुनक दर्भ इत्येतेभ्यः फण् भवति यथासंख्य भार्गवे वात्स्ये आग्रायणे चापत्येऽसिधेये । सारइतायना भवति भार्गवश्चेत सारद्वतोऽन्यः । शौनकायको भवति वात्स्यश्चेत् शौनकाउन्यः । दार्शायण भवति आग्रायणश्चेत् दार्भिरन्यः । सरदत्शुनकशब्दौ बिदादिषु पठ्यते ।
द्रोणपर्वतजीवन्ताद्वा ॥ २ ॥ द्रोण पर्वत जीवन्ता इत्येतेभ्यः वृद्धापत्ये कण च भवति । गौणायणः । द्रौणिः । पार्वतायनः। पार्वतिः । जैवन्तायनः । जैवन्ति । वृद्ध इत्येव । गौणिः ।
बिदादिभ्योनृष्यानन्तऽञ् ॥ ३ ॥
वृद्ध इति वर्तते । बिद इत्येवमादिभ्यः अनृषीणामानन्तये अज भवति । बिदस्थापत्यं बैदः । बिद उर्व कस्यप कुशिक भरद्वाज उपमन्यु किलात किदर्भ विश्वानर ऋष्ठि
Hemasan