________________
जैनेन्द्रव्याकरणम् । भवति । इनोऽपवादः । आदौ जकारः वातजफादस्त्रियामिति विशेषणार्थः । कुञ्जस्यापत्य पौत्रादि कौञ्जायन्यः। कौजायन्यौ कौजायनाः। बातजफादस्त्रियामिति स्वार्थ ज्फो भवति द्रिसंज्ञः कुञ्ज बन शंख गण लोमन् लोभशब्देन तदन्तविधिरिति केचित् । भस्मन् शठ अयं गर्गादिष्वपि शाक शौण्ड शुभ विपास अयं शिवादिष्वपि स्कन्दना वृद्ध इति किम् । कुञ्जस्यापत्यमनन्तरं कौञ्जिः। वृद्ध इत्ययमधिकारश्च शिवादिभ्योऽणि त्यतः प्राक् ।
नडादेः फण ॥ ८८ ॥ नड इत्येवमादिभ्यो बद्धोऽपत्ये फण भवति । नडस्यापत्यं वद्ध नाडायनः । वृद्ध इत्येव । अनन्तरो नाडिः । नड चर वक मुंज इतिक इतिश उपक लमक सलंकु शलकञ्चादेश लभते सालङ्कायनः । कथ सालंकायनः कथं सालंकिः पिता सालंकिः पुत्रः सलंक इति प्रकृत्यन्तरमस्ति । अथवा पैला. दिषु पाठसामर्थ्यात् इजपि भवति पञ्चपूल वाजव्या तिक अग्निशमन वषगणे । गोत्रे आग्निशम्र्मायणो मवति वार्षगणश्चेत् मानिशम्मिरन्यः प्राण नर सायक दास मित्र द्वीप तगर पिंगल किंकर कथन कतर कतल काश्य काव्य सैव्य अजावाच्य स्तम्भ शिंशपा अमुष्य निपातनात् साधुः । कृष्णरणौ ब्राह्मणवासिष्ठयोः । यथाक्रमं ब्राह्मणवाशिष्टेऽर्थे । अजमित्र लिगु चित्र कुमार क्रोष्टुरपरत्वं क्रोष्ट च । लोह दुर्ग अग्र तृण शकट सुमत निमत ब्राह्मणचकणैरोपीध्यते चाटकर बदर अश्वल अस्वर कामुक ब्रह्मदत्त उदम्बर अलोह दड अन्ये इमानपि पठन्ति वक्ष्यमाणान् रुच् जत् इत्वत् जनत्वत् हिंसक दंडिन् हस्तिन् पञ्चाल चमसिन् । लौकिकगोत्रमा | इत्येव नडो नाम कश्चित्तस्थापत्य नाहिः ।
-