________________
जैनेन्द्रव्याकरणम् । बान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ ३ ॥
पौत्रादेरपत्यमिति वर्तते येषां सप्तमः पुरुष एकस्ते सपिण्डाः परस्परं वसे यसे वा सपिंडशब्दः समानस्य समावः इहैव निपातितः । प्रकृतं जीवतीति शत्रन्तं स्थविरतरस्य विशेषणम् इदं तु जीवतीति पदं तिङतं सज्ञिनो विशेषणम् । चातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रादेर पत्य यज्जीवति तदा युवसंज्ञं भवति गायर्यायणो गार्यः । दाक्षायणो दाक्षिः । अन्य ग्रहणं किम् । भ्रातरि इति वर्तते । तस्मिन्नेव सपिंडे पितृव्यपुत्र जीवति स्यात् । सपिंडग्रहणमसम्बन्धान्यसम्बन्धनिरासार्थम् । ज्यायसीति वर्तमाने स्थविरतरग्रहणं किन् । स्थानवयोभ्यां ज्येष्ठे सपिड़े यथा स्यात् भ्रातृव्ये घयोज्येष्टे पितृव्यः कनीयान् युवसंज्ञो न भवति । जीवतीति किम् । मृते गार्य एव ।
पूजाकुत्सयोर्व्यत्ययः ॥ ८४ ॥ वेति वर्तते । परस्परविषयगमनं व्यत्ययः । बद्धस्य युवसंज्ञा यूनश्च वृद्धस शेत्यर्थ. पूजायां कुत्सायां च गम्यमानायां यथासंख्यं वृद्धयूनोर्वा व्यत्ययो भवति पूजायाम् तत्र भवान् गाायणः तत्र भवान् गाग्यौँ वा । युवसंज्ञासाम
र्थ्यात् वृद्धस्त्यं युवत्येन योगः । कुत्सायां गार्य त्वं जाल्म गाायणस्त्वं जाल्म । वृद्धसंज्ञासामर्थ्यात् युक्त्यस्य निवृत्ति।
प्रवाहादेरिञ् ॥ ८५ ॥ तस्थापत्यमिति वर्तते । अकारान्तेभ्यो मृद्भयः बाहु इत्येवमादिभ्यश्च अनन्तरे वृद्ध युवसंजके चाऽपत्ये इञ् भवत्यणोऽपवादः । आकम्पनि: । दाक्षिः। औपगविः । श्रमकारान्तार्थं बाधकबाधनार्थं च बाहादिग्रहणम् । बाहविः ।