________________
३४
महावृत्तिसहितम् । भवति। गाग्यस्यापत्यं युवा गाग्योयणः । दाक्षायणः। औपगविः । नाडायनिः ।
जीवति तु वंश्ये युवा ऽस्त्री ॥१॥ वशः पितृपितामहादिप्रबन्धः तत्र भवो वंश्य: पित्रादिः । पौत्रादीति वर्तते । तच्चार्थवशात् तांतं संवंध्यते । पौत्रादेर्यदपत्यं चतुर्थादिकं तद्वशे जीवति युवसंज्ञ भवति स्त्रियं वर्जयित्वा । गाय॑स्यापत्यं गाायणः । दाक्षेर्दाक्षायणः । अस्त्रियामिति किम् । गार्यस्यापत्त्यं स्त्री गार्गी दाक्षी । तु शब्दो वृद्धसंज्ञासमावेशनिवृत्यर्थम् इह दोषः स्यात् सालङ्करपत्यं युवा यजिजोरिति फण् । पैलस्यापत्यं युवा द्वयचोऽण इति फिञ् तयो!नि पैलादेरित्युप् भवति । वृद्धसज्ञासमावेशे तु वद्धच्यनुबिति प्राग्द्रवीये अजादावनुप प्रसज्येत । अस्तु यूनीति भविष्यति इह तर्हि दोषः कण फिजोति उबिभाष्यते उप्पक्षऽपि वृद्धसंज्ञासमावेशे वृद्ध ज्नु बिति अनुप्स्यात् । अथासमावशे कथ बद्धलक्षणो वुञ् गाायणानां समूहः गार्गायणकं वक्ष्यति वृद्धोक्षोष्ट्रादिसूत्रे वृद्धग्रहणेनैव सिद्ध राजन्यमनुष्यग्रहण ज्ञापकमपत्याधिकारादन्यत्र वृद्धग्रहणे लौकिकं गोत्रग्रहणम् । तेन वृद्धयूनोः समावेशः ।
भ्रातरि च ज्यायसि ॥ ८२ ॥ ___ पौत्रादेरपत्यमिति वर्तते भ्रातरि च ज्यायसि जीवति कनीयान् भ्राता युवसंज्ञो भवति । मृतेऽपि वेश्ये यथा स्यादित्यारंभः धाता वंश्यो न भवति साक्षात् परम्परया वा अकारणत्वात् गाय॑स्य द्वौ पुत्रौ ज्यायसि जीवति कनीयान् गार्यायणः । एवं दाक्षायणः ज्यायांस्तु भ्राता गाग्यौँ | दाक्षिरिति ।