________________
जैनेन्द्रव्याकरणम् ।
२०
एत्र भवति | वनस्पतीनां समूहः वानस्पत्यम् । यमाचेति वक्तव्यम् । यमस्यापत्य याम्यः । पृथिव्या जानौ । पार्थिवः । पार्थिवी । देवस्य यत्रजौ । दैव्यम् । देवम् । बहिषष्टिखं यच । बाह्यम् । ईक एव । बाहीकः । झेर्ममात्रटिखमनित्यमारातीय इत्यादी । स्थानोऽकारः । अश्वत्थाम्नोऽपत्यं अश्वत्थामः । लोम्नश्वापत्येषु बहुषु । उडुलोमाः । शरलोमाः । बहुष्विति किम् । औौडुलोमिः । शारलोमिः । सर्वत्र गोरजादिप्रसगे यः । गव्यः । अजादिप्रसंग इति किम् । गोरूप्यम् । गोमयम् ॥
उत्सादेरन् ॥ ७१ ॥
प्राग्द्रोरिति वर्तते । उत्स इत्येवमादिभ्यः समर्थ विभक्त्यन्तेभ्यः प्राग्द्रोरर्थेष्वञ् भवति । अणस्तदपवादानां च बाधकः । अनि सति यन्त्रजोरिति बहुत्वे उब्भवति । उमस्यापत्यं औरस' | उदपानस्यापत्य मौदपानः । वत्स उदपान विकिर विनद महानद महाप्राण तरुण तलुन बष्कयशब्दादसे असमास इत्यर्थः । धेनु पति जगतो त्रिष्टुप् अनुष्टुप् जनपद भरत उशीनर पीलु कुण उदस्थानशब्दाद्देशे पृषदश भल्लकीय रथंतर मध्यंदिन बृहत् महत् सत्वत्शब्दो मत्वंतः आगतनुको गृह्यते । कुरु पञ्चाल इंद्रावसान उष्णिह ककुभ् सुपर्ण ग्रीष्मादन्दसीति वक्तव्यम् । छन्दश्चेह वृत्तजातिः । तरुणशब्दस्य लिंगविशिष्टस्य ग्रहणम् । तरुण्या अपत्यं तारुणः रायादयोऽर्थविशेषलक्षणादण - पवादात् पूर्वनिर्णयेन भवन्तीति ।
स्त्रीपुंसान्नुक्त्वात् ॥ ७२ ॥
बक्ष्यति ब्रह्मणस्त्व एतस्मात्वसंशब्दनात् प्राग्योऽथ वक्ष्यते तेषु स्त्रीशब्दात् पुंशब्दाञ्च श्रञ् भवति नुगागमः । खोषु भवं स्त्रीणा समूहः स्त्रोभ्यः आगतम् स्त्रीभ्यो हितं