SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । दैवयजिसौचिवृक्षिसात्यमुनिकाएठेविद्धिभ्यो वा ॥ ६६ ॥ देवयशि सौचवृक्षि सात्य मुनि काण्ठेविद्धि इत्येतेभ्यः वा प्यो भवति । उभयत्र विभाषेयम् । वृद्ध प्राप्ते अनन्तरापत्ये चामाप्ते । देवयज्ञया । देवयज्ञी । सौचिवक्ष्या । सौचिवृक्षी । सात्यमुराया । सात्त्यमुग्री । काण्ठेविध्या । कायठेबिदी। अनन्तरापत्ये हा उपसंख्यानमजात्यर्थमिति ङी वृद्धापत्ये इतोमनुष्यजातेरिति ॥ समर्यात्प्रथमाद्वा ॥ ६७ ॥ समर्थादिति प्रथमादिति वेति च पदत्रितयमधिकृतं वेदितव्यम् किंबहुसर्वनानोदयादेरित्यतः प्राक् वक्ष्यति तस्यापत्यं उपगारपत्यं प्रौपगवः । तस्येत्येतत्तांत सूत्र प्रथमं सन्निविष्टम् तस्मादपत्याभिधाने त्यः समर्थादित्युच्यते सामर्थ्य च सुवन्तस्येति सुबन्तात्योत्पत्तिः दद्ववर्णादिति विशेषणार्थतु ङ्याम्मृद्ग्रहणमधिक्रियते वृद्धस्य उपगारपत्यमिति वाक्यस्यासुबन्तत्वात् वाक्यावयवस्य चासाम र्यात त्यानुत्पत्तिः । समर्यादिति किम् । कम्बल उपगोरपत्यं देवदत्तस्य । यद्येवं समर्थः पदविधिरिति समर्थादेव मनिध्यति किमनेन कृतवर्णानुपूर्वकात् पदात् त्यो यथा स्यादित्येवमर्थम् । सूस्थितस्थापत्यं सौस्थितिः। वैक्षमाणिरिति नेन्द्रस्येत्यत्र बक्ष्यति समुदायकार्य तावद्भवति पश्चादेकादेशः । एवं वासंहितात्योत्पत्तावनिष्टं रूपं स्यात् । प्रथमादिति किम् । तान्ताद्यथा स्यादपत्यशब्दान्मा भूत । वाग्रहणं किम् । उपगोरपत्यमिति वाक्यमपि साधु यथा स्यात् । अनन्तराद्वाग्रहणात् सविधिरपि । उपरवपत्यम् ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy