________________
जैनेन्द्र व्याकरणम्
पाककर्णपर्ण पुष्पफलमूलवालः ॥ ५४ ॥
पाकादयो द्यभूता यस्य तस्माज्जानिवाचिनो मृदः स्त्रियां ster भवति । ओदनपाकी | क्षणपाकी । मृषिककर्णी | संकुकर्णी । यष्टीपर्णी । शालिपर्णी । शखपुष्पी । हिरण्यपुष्पी । दासीफली | पूगफली । दर्भसूली । सीर्यसूली । गोवाली । अश्ववाली पुष्पफलमूलोत्तरपदादु ङविधिते तद्जादिषु पठनीयम् । पूर्वेण भिर्द्ध नियमार्थमेतत् स्त्रियामेव ये नातिवाचिन. शब्दा तेषु एतेभ्य एव ङी विधिर्नान्यस्मात् बलाका । मक्षिका ।
।
२३
इता मनुष्यजातेः ॥ ५५ ॥
इकारान्तान्मनुष्य जातिवाचिनो मृदः स्त्रियां ङीत्थो भवति । कुन्ती । अवन्ती । अपत्यार्थे द्विकुरुनन्द्यजाद कौशलात् - ज्य इति ज्य । तस्य कुन्त्यवन्ति कुरुभ्यः स्त्रियामित्युप् । एवं दाक्षी । लाक्षी । इत इति किम्। विट् । दत् । यथासख्यमाणो. अताप्राच्यभर्गादेरित्युप् । मनुष्यग्रहणं किम् । तित्तिरि । जातेरिति वर्तमाने पुनर्जातिग्रहणं योङोपि यथा स्यात् । औदमेयी । अयेङइति प्रतिषेधः उत्तरत्र त्रिसूत्र्यां च वर्तते । इञ उपसंख्यानमजात्यर्थं कर्तव्यम् । सुतङ्गमेन निर्वृत्ता नगरी सौतङ्गमी । बुञ्छण्ठेत्यादिना सुतङ्गमादिभ्य इञ् । जरुतः ॥ ५६ ॥
मनुष्यजातेरिति वर्तते । उकारान्तान्मनुष्यजातिवाचिना मृदः स्त्रियां ऊकारस्त्या भवति । कुरूः । इक्ष्वाकू. 1 पर्स: । अस्य कुत्यवन्ति कुरुभ्यः स्त्रियामिति अजणो: अतोऽप्राच्यभर्गादेरित्युप् । द्विमात्रोच्चारणं शेषाद्वति परस्यापि कपो बाधनार्थम् । तथाहि ब्रह्म बन्धुर्यस्याः सा ब्रह्मबन्धूः ।