________________
जैनेन्द्रव्याकरणम् ।
२१
अस्या.
या मणिपुच्छी। विषं पुच्छे अस्याः विषपुच्छी । ईबिशे षणे वेत्यत्र खड्गादिभ्यः इवतस्य परवचन मुक्तम् । उपमानात् पक्षपुच्छाभ्यामिति वक्तव्यम् । उलूक इव पक्षावस्या: उलूकपक्षी शाला । उलूक इब पुच्छमस्या उलूकपुच्छी सेना ॥ न क्रोडादिवचः ॥ ४८ ॥
1
1
क्रोडादिर्गणः । क्रोडाद्यन्नात् बहुजन्ताच्च मृदः ङीत्यो न भवति । स्वाङ्गानीच इति प्राप्तिः । क्रोडाशब्दः स्त्रीलिङ्गः । कल्याणी क्रोडा प्रस्याः कल्याणक्रोडा । कल्याणगोरवा । कल्याणबाला | कल्याणखुरा । कल्याणाशफा | कल्याणगुदा । क्रीडादिराकृतिगणः । सुभगा । सुगला । बहूच. खल्वपि । पृथुजघना । दृढहृदया । महाललाटा ॥
सहनविद्यमानात् ॥ ॥ ५० ॥
सह नञ् विद्यमान इत्येतेभ्य उत्तरं यत्स्वाङ्ग तद्न्तात् ङीत्यो भवति । सकेशा । अकेशा विद्यमानकेशा । मनासिका । अनासिका । विद्यमाननासिका । सुदन्ता । विद्यमानदन्ता ॥
नखमुखात् ॥ ५१ ॥
नख मुख इत्येवमन्तान्मृदः खुविषये ङोत्यो न भवति । सूर्पणखा । व्याघ्रणखा । वज्रगाखा | पूर्वपदात्खावगइति त्वम् । गौरमुखा | श्लक्ष्णमुखा । संज्ञाशब्दा एते । खाबिति किम् । सूर्पमिव नखा अस्या सूर्पनखो । सूर्पनखा । चन्द्रमुखी । चन्द्रमुखा ॥
सख्यशिश्वी ॥ ५२ ॥
सखी अशिश्वी इत्येतौ शब्दौ निपात्येते ङीविधिनिपात्यते । सखीयं कुमारी । नास्याः शिशुरस्ति अशिश्वी ॥