________________
जैनेन्द्रव्याकरणम् ।
१
जातेर्वान् ॥ ४५ ॥
तादिति वर्तते । जातिशब्दपूर्वः कान्तो यो वसः तस्मात् त्यो भवति । अस्त्राङ्गादेरुत्तरत्र विकल्पो वक्ष्यते । स्वाङ्गे पूर्वपदमिहोदाहरणम् । शङ्कौ भित्रौ यस्याः सा शङ्खभिन्नी । उरुच्छित्री । गलकोटकृत्ती । केशलूनी । जातेरिति किम् । मासजाता | बहुजाता । अजाता । सुखजाता । दुःखजाता । वादिति किम् । सव्यजानुप्रतिष्ठिता । जातान्तात्प्रतिषेधो वक्तव्यः । दन्तजाता । स्तनजाता । पाणिगृहीत्यादीनां गुर्वनुज्ञातेन डीवक्तव्यः । पाणिगृहीती भार्या । यस्यास्तु यथाकथंचित् पाणिगृहीतः सा पाणिगृहीता । तइतिदतोक्तं जीवतिकालसुखादिभ्यः परनिपातः तान्तस्येति जाँतिरत्र सकृदाख्यातनिग्रह्या ॥
वा स्वांङ्गादेः ॥ ४६ ॥
क्तादिति वर्तते । वादिति च अस्वाङ्गादेः कान्ताद्वसात् बा ङोत्यो भवति । सागरं जग्धमनया सागरजग्घी । सागरजग्धा । पलाण्डुभक्षिती । पलाण्डुभक्षिता । सुरापोती । सुगपोता । अस्वाङ्गादेरिति किम् । शंखभिन्नी । स्वाङ्गादेः पूर्वेण नित्यो विधिः । वेति व्यवस्थितविभाषा तेनेह न भवति । वस्त्रं इन्नमस्याः वस्त्रछन्ना । वसनच्छन्ना । षसेपि संज्ञायां विकल्पः । प्रबद्व विलूनी | प्रवद्धविना ॥
स्वाङ्गानीचोस्फोडः ॥ ४१ ॥
वेति वर्तते । स्वाङ्गं न्यक् अस्फोड् यत् तदन्तान्मृदः वा ङीत्यो भवति । दीर्घकेशी । दीर्घकेशा । गौर मुखो । गौरमुखा । स्वाङ्गादिति किम् | बहुया । अस्फोट इति किमु । कल्याणगुल्फा कल्याणार्थ्या । वेतिव्यवस्थितविभाषा उपाख्याता ।