________________
महावृत्तिसहितम् । वरुणानी । भवानी । सर्वाणी । रुद्राणी । इन्द्राणी । मृडाणी । हिमारण्ययोर्महत्वे । महदिम हिमानी। महदरण्यमरण्यानी। यवाहोगे। सदोषो यवः यवानी। यवनाल्लिप्याम् । यवनानां लिपि: यवनानी । उपाध्यायमातुलाभ्यां वा । प्रानुकएवायं विकल्पः । उपाध्यायी । उपाध्यायानी। मातुली। मातुलानी। प्राचार्यादणत्वं च । प्राचार्यानी । अचार्या। आर्य क्षत्रियाभ्यां अपुयोगे वेति वक्तव्यम् । भार्याणी। आर्या । क्षत्रियाणी । क्षत्रिया । अपुंयोग इति किम् । आर्यस्य भायौ आर्से । क्षत्रियस्य भार्या क्षत्रियी । भानुगिति द्विमात्रोच्चाराष्टिसग्रहार्थम् ।
क्रीतात्करणादेः ॥ ४३ ॥ कीतशब्दान्तान्मृदः करणादेः स्त्रियां ङीत्यो भवति । वस्त्रेण क्रीयते या वस्त्रक्रीती। वसनक्रीती । साधनं कृताबहुल मित्यत्र बहुलवचनालब्धम् । तिधाकारकाणां कृझ्दिः विधि: प्राक्सुबुत्पत्ते रिति करणवाचिशब्दस्य क्रीतशब्देन सविधिः । पश्चादकारांतलक्षणो की विधिः। करणादेरिति किम् । सुनीता। दुःक्रीता । ताइदुडोत्यपुम्महुस इति सत्यत्वे कथ सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी बहुलवचनादन् सुवन्तेन वृत्तिर्न कृदन्तेन सुबुत्पत्तिश्च वहिरङ्गा अन्तरङ्गे टापि कृते भवतीति सिद्धम् । क्रीतान्तान्मृद इति विशेषणात् वाक्येन भवति, व्रत्येण क्रीता।
क्तादल्पे ॥ ४४ ॥ करणादेरिति वर्तते । करणादेर्मंदः कान्तात् अल्पे ङीत्येः भवति । अत्रापि प्राक् सुबुत्पत्तेः सविधिः । अनविलिप्ती द्यौः। अल्पान्यस्यामभ्राणीत्यर्थः । रूपविलीप्ती पात्री, अल्प इति किम् । चन्दनानुलिप्ता।