________________
जैनेन्द्रव्याकरणम् ।
१७
ध्यायस्य स्त्री उपाध्यायी । गणको । प्रष्ठो । महामात्री । एते संज्ञाशब्दा पुयोगात् स्त्रिया वर्तते । पुंयोगादिति किम् । देवदत्ता । खोरिति किम् । प्रसूता । प्रजाता । परिभ्रष्ठा । पुयोगादेते शब्दाः स्त्रिया वर्तन्ते न तु पुसि संज्ञाभूताः । अगोपालकादेरिति किम् । गोपालिका । पशुपालिका । आदिशब्दः प्रकारवाची | तेन सूर्याद्देवतायां ङीर्न भवति । सूर्यस्य भार्या सूर्या । देवतायामिति किम् । सूर्यो नाम मनुष्यः तस्य सूरीति ।
पूतक्रतोरैच ॥ ३८ ॥
पुंयोगादिति वर्तते । पूतक्रतुशब्दात्तु ङीत्यो भवति ऐकारश्चान्तादेशः । पूतक्रतोः स्त्री पूतक्रतायो । पुंयोगादित्येव । पूताः क्रतवो यस्याः सा पूतक्रतुः ।
वृषाकप्य निकुसितकुसीदात् ॥ ४० ॥
ऐचेति वर्तते पुयोगादिति च । वृषाकपि अग्नि कुसित कुमोद इत्येतेभ्यः स्त्रियां ङोत्यो भवति ऐकारश्चान्तादेशः । वृषाकपायी । अग्नायी । कुसितायो । कुसीदायी । कुलितकुसीदयोः शाशदत्वात् पूर्वेणैव सिद्धप्यैकारार्थ वचनम् । पुंयो - गादित्येव । वृषाकपिर्नाम काचित् ।
1
मनोरौ च ॥ ४१ ॥
I
पुंयोगादिति वर्तते औकारश्चान्तादेशः ऐकारश्च । मनोः स्त्री मनावी । मनायी । केषांचिन्मनुरित्यपि ॥
1
I
वरुणभव सर्व रुद्रेन्द्रसृडहिमारण्ययवयवन मातुला
चार्याणामानुक् ॥ ४२ ॥
वरुणादिभ्यो मृयो ङीः स्त्रियां त्यो भवति अनुगागमः । अत्र केषांचिच्छन्दानां पुंयोगादिति सिप्यानुगर्थ ग्रहणम् ।