________________
emama
sammutanauneendentatstate
महावृतिसहितम् । रस्य तु नकारादेशः तु शब्द किमर्थ बहुल डीविधिर्भवति तकारस्य तु नकारी नित्यं यथा स्यादित्येवमर्थः । एता । एनी । स्येता । स्येनी । रोहिता । रोहिणी । हरिता । हरिणी । शवली । पिशङ्गी । कल्माषी । सारंगी । काली संज्ञायां वर्ण च । काला प्रन्या । क्वचिदप्रवृत्तिरेव श्वेता। प्रमिता । पलिता। कृष्णा । कपिला । क्वचिदुभयथा । शोणी । शोणा। वडवा । नीली औषधिः । प्राणिनि च नीली वडवा । नीली गोः । सज्ञायामुभयम् । नीली। नीला । आच्छादने न भवत्येव । नीला साटी । नीला मेघमहति: । वर्णादिति किम् । कृता । हृता ।। अत इत्येव । सितिः कन्या ।
कुण्डगोणस्थलभाजनागकुशकामुककबरादमत्रावपनाकृत्रिमाश्राणास्थौल्यायोविकारमैथुनेच्छाकेशवेशेषु ॥ ३७॥
कुण्डादिभ्यः क बरशब्द पर्यन्तेभ्य अमत्रादिष्वर्थेषु यथामख्यं स्त्रिया ङीत्या भवति । कुण्डी भवति अमन चेत कुण्डा अन्या दाह इत्यर्थः । गोणी भवति भावपनं चेत् गाणा अन्या। सज्ञैषा । स्थली भवति अकृत्रिमा चेत् स्थला अन्या । माजी भवति प्राणा चेत भाजा अन्या। भाजयते. स्त्रियां युत्ति प्राप्ते अत एव निपातनादकारः । नागी भवति स्थौल्यं चेत् नागा अन्या । तन्धी दीर्घा वा संज्ञाया वा। जातिविवक्षायां तु नित्यं डी । कुशी भवति अयोविकारश्चेत् कुशा प्रन्या काष्ठादिमयी तदाकृति. । कामुक्की भवति मैथुनेच्छा चेत् कामुका अन्या। कचरी मधति केशवेशश्चेत् कबरा अन्या ।
पुयोगात् खोरगोपालकादेः ॥३८॥ ___ अत इति वर्तते पुंयोगा(तोर्यः शब्दः स्त्रियाँ वर्तते खुभूतः तस्मात् ङोत्या भवति गोपालशादीन् वर्जयित्वा । उपा