________________
महात्तिसहितम् । त्यखे त्यात्रयम् ॥ ६३ ॥ त्यस्य खे कृतेऽपि त्याश्रयं कार्यं भवति । सुम्मिङकिप्याणिखानि प्रायः प्रयोजयन्ति । सुपः खम् । धर्मवित् । सेाः खे ऽपि पदसंज्ञा भवति । मिङः खम् । अधोक । हल्याप इति तिपः खेऽपि पदसंज्ञायां एब्घत्वभष्टजश्वचानि भवन्ति । किपः खम् । अग्निचित् । किपो नाशेऽपि तुक । किपो यङ खम् । पापचीति । यो नाशेऽपि द्वित्वादिकायं भवति । णिखम् । कार्यते । हार्यते । जेरभावेप्यैन्भवति । प्रथम त्यग्रहणं किम् । आघ्नीत । प्राङपूर्वाद्धन्तेर्विध्यादिलिङ् । प्राडो यमहन इति दः। लिङोऽनन्त्यस्य खमिति सीयुडेकदेशस्य सकारस्य खेऽपि त्याश्रयं कार्य झाल किति उस्य खं न भवति। द्वितीयं त्यग्रहणं किम् । वर्णाश्रयं मा भूत् । गवे हितम् । त्यखे सत्यपि अचीति वर्णाश्रया अवादयो न भवन्ति ।
नामता गोः ॥ ६४ ॥ उमता वचनेन नाशिते त्ये यो गुस्तस्य त्याश्रयं न भवति । मृषः । जुहुतः । शबाश्रयावैबेपौ न भवतः । गर्गा इति बहुत्वविवक्षायां यभित्रोरुपि कृते तदाश्रय आदेरैम्न भवति । गोरिति किम् । पापक्ति। जरीगृहीति । द्वित्वं निश्च भवतः । नोमतेति योगविभागः । तेन गोरन्यत्रापि कचिस्याश्रयं न भवति । परमवाचः । परमवाचा । अन्तवर्तिनां विभक्तिमाश्रित्य पदत्वात्कृत्त्वं प्राप्तं नोमतेति प्रतिषिध्यते॥
अन्त्याद्यचष्टिः ॥ ६॥
mammu