________________
जैनेन्द्रव्याकरणम् ।
नाशः खम् ॥ ६१ ॥ नाशोऽनुपलब्धिरभावोऽप्रयोग इत्यनान्तरम् । एतैः शब्दैः प्रतिपाद्यमानस्यार्थस्य खमित्येषा संज्ञा भवति । इतिकरणोऽनुवर्तते । तेन नाशार्थस्य संज्ञेयं लभ्यते । स्थानिग्रहणं चानुवर्तते। प्रसङ्गवांश्च स्थानी । तेन प्रसक्तस्य नाशः खसंज्ञो भवति । भाविनो नाशस्य संज्ञित्वं संज्ञापि भाविनीति नेतरेतराश्रयदोषः। वक्ष्यति बलिव्योः खम् । दासेरः । क्षुद्राभ्यो वेति दूण । इटि चात्खम् । गोदः । यिखम् । जह्यात् । खप्रदेशा वलिब्योः व मित्येवमादयः।
उबुजुस् ॥ १२॥ तस्यैव नाशस्य उप उच् उस इत्येताः संज्ञा भवन्ति । संज्ञासङ्करप्रसङ्ग इति चेत् उप उच् उस् संज्ञाभिभांवितस्य नाशस्य एताः पृथकसंज्ञास्तेनादोषः। नोमता. गोरिति प्रतिषेधो ज्ञापकः खसंज्ञाया अत्र समावेश भवति । ततः पञ्च सप्तेति त्याश्रयं पदत्वं सिद्धम् । क्सस्याचि खमिति वर्तमाने वो दुहदिहादिसूने उब्वचनं ज्ञापकमुबुजुसः सर्वस्य स्थाने भवन्ति नान्तस्य । एता अपि भाविन्यः संज्ञाः। उदाहरणम् । पञ्चशष्कुलम्। पञ्चभिः शष्कुलीभिः क्रीतम । रादुवखाविति ाीयस्य ठण उप । ततो हृदुप्युबिति स्त्रीत्यस्योप । जुहोति । बिभेति । उज जुहोत्यादिभ्य इति शप उच । तत उचि द्वित्वम् । पालाः । पञ्चालानां निवासो जनपद इत्यागतस्याणो जनपद उसिति उस। ततो युक्तवदुसि लिङ्गसंख्ये इति लिङ्गसंख्यातिदेशः । उबुजुसप्रदेशा हृदुप्युबित्येवमादयः।
Meena
।