________________
३४
महावृत्तिसहितम् ।
1
उङः खम्। जग्मतुः । जग्मुः। गमहनजनखनधसेोऽनङीत्युङः खस्य स्थानिवद्भावाद् द्वित्वं भवति । णिखम् | आटिटत् । लुङि कचि णिखे च कृते णिखस्य स्थानिवद्भावादच इति fadrataarar farवं भवति । अन्तस्थादेशः । चक्रतुः । चक्रुः । यणादेशस्य स्थानिवद्भावादेकाचा द्वित्वं भवति । याद्यादेशाः । श्रहं निनाय निनय । अहं लुलव लुलाव | याद्यादेशानां स्थानिवद्भावादस्य पलि नेनै लाली इति द्वित्वं भवति । द्वित्वनिमित्त इति किम । दुद्यूषति । ऊठि यणादेशेो धोर्नतूठ द्वित्वनिमित्तमिति स्थानिवद्भावो न भवति । अचीति किम् । जेधीयते । देध्मीयते । यङि द्वित्वनिमित्ते घ्राध्मारीकारादेशः स्थानीव न भवति । वे कर्त्तव्य इति किम् | जग्ले | मरले । धोराकारल्या. चः स्थानं न भवति ॥
ईप्केत्यव्यवाये पूर्वपरयेाः ॥ ६० ॥
1
ffer यत्र निर्दिश्यते तत्र पूर्वस्याव्यवहितस्य कार्य्यं भवति । केति यत्र निर्दिश्यते तत्र परस्यान्यव हितस्य कार्य भवति । ताप्रक्लृप्तिर्भवतीत्यर्थः । इति करणेोऽर्थनिर्देशार्थः । ईप्केति इमे संज्ञे द्वयोर्विभक्तयोः प्रत्यायिके प्रसिद्धे । ताभ्यामितिशब्दः परः प्रयुज्यमानो विभक्तिप्रतिपाद्यो योऽर्थस्तं प्रत्याययति । ईबर्थो यत्र निदिश्यते कार्थो यत्र निर्दिश्यत इत्यर्थः । ईबर्थनिर्देशः । अचीको यण । दध्युदकम् । मध्वियत् । अव्यवाय इति किम् । धर्म्मविदत्र | कार्थनिर्देशः। अच्चात् । ददति । दधति । orate इति किम् । चिकीर्षन्ति । शपा व्यवायात् फेरदादेशो न भवति ॥