________________
जैनेन्द्रव्याकरणम् । मित्तकस्तस्य स्थानिवद्भावप्रतिषेधाद्यस्य ड्याञ्चेत्यखं न | भवति । पञ्चभिक्षीभिः क्रीतः रादुबखाविति ठण् । उपि स्त्रीत्यस्योप । तस्य स्थानिवद्भावप्रतिषेधादिकारस्य खं न भवति । यखविधौ । कण्डूतिः। कण्डूयतेः क्तिचि कृता खाविति क्तिचि कृते अतः खस्यागनिमित्तस्य स्थानिवद्भावप्रतिषेधावलि व्योः खमिति यखं भवति । उवादेशं प्रति स्थानिवद्भावः स्यादिति चेद् भवतु। च्छोः शूड भविष्यति । तत: स्वेकोदीत्वं योऽनादिधात्पूर्व इति न्यायात्पुनरुवादेशो न भवति । स्वविधैा। शिण्डि । पिण्ढि । नसः खस्य स्थानिवद्भावप्रतिषेधादत्रानुस्वारस्य परस्वत्वम्भवति । अनादिधादचः पूर्वस्थानी नकारस्तस्यैवायं विधिः । अनुस्वारविधौ । शिंषन्ति। पिंषन्ति। नश्चा पदान्तस्य झलीत्यनुस्वारे कर्त्तव्ये नकारः श्नसः खमित्यनादिष्टादचः पूर्व इत्यखं न स्थानिवद्भवति । दीविधा। प्रतिदीनः । प्रतिदीना । अनः खस्य परनिमित्तस्य स्थानिवद्भावप्रतिषेधात् हल्यभकुछर इत्यनुवृत्तावुङीति दोत्वं सिद्धम् । वकारो हल्परोऽस्मादेव वचनात् । चर्विधा । जक्षतुः । जक्षुः । गमहनजनखनघसोऽनङि कितीत्युङः खं घकारस्य चत्वे कर्तव्ये स्थानीव न भवति । गिर्योरिति प्रकृतिपूर्वत्वेनान्तरङ्गे दीत्वे कर्तव्ये यणादेशो ऽसिद्धः॥
द्वित्वे ऽचि॥५६॥ नपदान्तद्वित्वेत्यतो द्वित्वग्रहणमनुवर्तते । तत्कार्यविशेषणम् । बित्वनिभित्ते ऽचि अजादेश बित्वे कर्तव्ये स्थानीव भवति । रूपातिदेशोऽयम् । प्रादुपिखान्तस्थायाद्यादेशाः प्रयोजनम्। आत्खम्। पपतुः।पपुः। इटि चारखमिति आत्खस्य स्थानिवद्भावादेकाचोलिटिद्वित्वं सिद्धम् ।
-