________________
महात्तिसहितम्।
नैधेयः । निधेरपत्यं यच इतोऽनिल इति ढणि परविधा कर्तव्ये आत्खस्य न स्थानिवद्भावः । अन्यथा यचो ढण न स्यात् । हे गौः । परविधी सुखे कर्तव्ये ऐपो न स्थानिवद्भावः। अचोऽनादिष्टात् पूर्वविधौ स्थानिवद्भावः। इह मा भूत् । अचीकरत् । अजीहरत् । अत्र हि पाकच्युङ इति प्रादेशे कृते द्वित्वे च प्रदेशस्य स्थानिवद्भावात् धौ कच्यनक्खे सन्वदिति सन्वड़ावो न प्राप्नोति । प्रादिधादेषोऽचः पूर्व इति स्थानिवद्भावाभावाद्भवति । वायवोरध्वों रित्यत्र यखविधि प्रति स्थानिवद्भावप्रतिषेधार्शल व्यो खमिति यखं प्राप्नोति । कर्तव्योऽत्र यत्नः॥ न पदान्तद्वित्ववरेयखस्वानुस्वारदोचर्विधी॥८॥ . पदान्तादिविधिध्वजादेशः स्थानीव न भवति । पू. वैण प्राप्तस्य स्थानिवद्भावस्य प्रतिषेधोऽयम् । पदान्तविधाः। को स्तः । कानि सन्ति । नसःखं किन्निमित्तमावादेशे यणादेशे च कर्तव्ये स्थानीव न भवति । अथ नात्र नियमः पूर्व विधेः । स्तः को सन्ति कानि इत्यपि प्रयोगात् । आदिधाचाचः पूर्वमौकारादि । इदं ता दाहरणम् । अभिषन्ति । निषन्तिं । द्वित्वविधौ । दद्धयत्र । मद्ध्वत्र । यणादेशस्य स्थानिवद्भावप्रतिषेधादनचीति धकारस्य द्वित्वं सिडम् । प्रसिद्ध बहिरङ्गमन्तरङ्ग इति स्फान्तस्य खं न भवति । वरे विधा । यायावरः । यातेयंङन्ताद्यो यङ इति वरे कृते अतः खस्यागनिमित्तस्य स्थानिवद्भाव प्रतिषधाद्यखे च कृते अकारस्य स्थानिवद्भावादिटि चात्खमिति आत्खं न भवति। ईविधा । आमलकम् । पञ्चदाक्षिः। आमलक्यारक्यवः फलं नित्यं दुशरादेरिति मयट् । तस्य उप्फल इत्युप् । हृदुप्युबिति स्त्रीत्यस्योप् परनि.
dassistskoselaandsatadaareneurs