________________
-
-
जैनेन्द्रव्याकरणम् । म् । गादेशी ग इव । अचिमुतम् । ङित्वादेप्प्रतिषेधः । इवेति किम् । स्थानी आदेशस्य संज्ञेति मा विज्ञायि । अत्र को दोषः । आङो यमहन इति वधेरेव दविधिः स्याडन्तेस्त्वाश्रयो न स्यात् । इवग्रहणादुभयत्र भवति । आहत । आवधिष्ट । आदेशग्रहणं किम् । विकार मात्रेऽपि यथा स्यात् । पचतु।पचन्तु । मिङन्तं पई सिद्धम् । अनल्विधाविति किम् । द्यौः । पन्थाः । स्यः। द्युपंथित्यदादेशा न । स्थानिवद्भावे हल्याप इति सोःखं प्रसज्येत । अलः परो विधिरयं प्राप्तः । क इष्ट इत्यत्रेकारस्य स्थानिबद्भावे हशिररुत्वं प्रसज्येत ।अलि विधिरयम् । प्रदीव्येति क्त्वात्यस्य स्थानिवद्भावे वलाद्यगस्येट प्रसज्येता अलःस्थानिविधिरयम् । अलाश्रयो विधिः अल्विधिः । शाकपार्थिवादिवन्मयूरव्यं सकादित्वात्सः॥
परे ऽचः पूर्वविधौ ॥ ५५ ॥ श्रादेशः स्थानीवेति वर्तते । अजादेशः परनिमित्तकः पूर्वविधा कर्तव्ये स्थानीय भवति । पटुमाचले पटयति । णिनिमित्तस्य टिखस्य स्थानिवद्भावादुडोऽत इति ऐम्न भवति । अवधीत् । अगनिमित्तस्यातः खस्य स्थानिवद्भावादतानादेर्धेरिति हलन्तलक्षण ऐविकल्पो न भव. ति । पूर्वणानल्विधाविति प्रतिषेध उक्त अल्विध्यर्थमि. दम् । पर इति किम् । वैयाघ्रपद्यः । पादस्य खमजादेशः परनिमित्तो न भवतीति पद्भावे स्थानीय न भवति । युवतिर्जायाऽस्य युवजानिः। जायाया निङ्न परनिमित्तक इति वलि व्यो खं न प्रतिबध्नाति । अच इति किम् । प्रगत्य । प्ये परतो उस्य खं परनिमित्तं प्रस्य तुकि कर्तव्ये स्थानीव न भवति । पूर्वविधाविति किम् ।।
-