________________
जैनेन्द्रव्याकरणम् |
३७
अच इति जातिनिर्देशः । निर्द्धारणे च ता । समानजातीयस्यैव लेोके निर्द्धारणं प्रसिडमिति द्वितीयमज्ग्रहणं लभ्यते । अचां योऽन्त्यो ऽच् तदादिशब्दरूपं दिसंज्ञ भवति । धर्मवित्र इच्छन्दः । ज्ञानमुत्र उच्छन्दः । आतामाथामित्यत्र आम्शब्दः । पचेते । पचेथे । टिटेरे इति टेरेत्वम् । अहं पचे इति व्यपदेशिवद्भावात्तदादित्वम् । दिप्रदेशा टिटेरे इत्येवमादयः । ॥
उपान्त्यालुङ् ॥ ६६ ॥
अलामन्त्यस्य समीप अलुङ संज्ञो भवति । अन्त्य - ग्रहणादलां समुदायो लभ्यते । अल्समुदायापेक्षया ह्यन्ते । sa भवति न केवलः । पच इत्यकारः । पाचकः । भेदकः उपान्त्य इति किम् । व्यवहितस्यान्त्यस्य च मा भूत् । अलिति किम् । समुदायस्य मा भूत् । उङप्रदेशा उङोऽतः युङ इत्येवमादयः ॥
येनालि विधिस्तदन्ताद्योः ॥ ६७ ॥
येन शब्देन यो विधिर्विधीयते स तदन्तस्य भवति । अलि यो विधिः स तदादौ भवति । येाचोरासुयुव इत्यच यविधिर्विधीयत इत्यजन्ताद्भवति । चेयम् । जेयम् । केवलाद्व्यपदेशिवद्भावेन । एयम् । अध्येयम् । श्रतः क इत्याकारान्तात्कः । गोदः । कम्बलदः ॥ सत्यविधौ न तदन्तविधिः ॥ * ॥ सविवैौ । कष्टं परमश्रित इति इप्सोन भवति |त्यविधैौ । सूत्रनडस्यापत्यं सैौननडिः । नडादेः फणिति फण् न भवति ॥ उगित्कार्य वर्णकार्य तदन्तादपि भवतीति वक्तव्यम् । । भवती । अतिभवती । दाक्षिः।त्पादिः। नैतद्वक्तव्यम | सुपा श्रितादयो विशिष्यन्ते न तु श्रितादिभिः