________________
n
h
- A
Là Ai
cảnh
chi Hà
-
महावृत्तिसहितम् ।
अनीचः ॥ १७ ॥ न्यच्छब्दात्राप्रधानवचनः नजपूर्वः यदित ऊर्ध्वमनुक्रमिष्यामः अनीच इत्येव तद्वेदितव्यम् । नीचा ड्यादयो न भवन्तीत्यर्थः । वक्ष्यति टिड्डाणजिति । कुरुचरी । मद्रचरी । जातेरयोङः । कुक्कुटी । शूकरी । अनीच इति किम् । बहुकुरुचरा । बहुकुधकुटा मथुरा ! ननु पूर्वत्र समुदायः स्त्रियां वर्तते नावयवः अवयव एव च टिन्न समुदायः । द्वितीयेऽपि विसेन समुदायो जातिवाची किं त्ववयवः तत्कथं प्राप्तिः इदमेव जापकं भवत्यत्र प्रकरणे तदन्तविधिरिति तथाहि प्रधानभूतेन तन्दतविधिः कुम्भकारी देवरत्त कुक्कुटी यद्येवं पूर्वमेवेदं सूत्र वक्तव्यम् । इह करणात पूर्वोक्तविधिर्नीचोपि भवतीति ज्ञाप्यते बहुधीवरी बहुपीवरीति ।
टिडढाणठण्ठजक्करपः ॥ १८ ॥
अत इति वर्तते । टित ढ अण् अञ् ठण ठञ् करप् इत्येवमन्तेभ्यः स्त्रियां ङो भवति । टापोपवादः । अनीच इत्यधिकारात् प्रधानेन तन्द तविधिरुतः । कुरुचरी। भद्रचरी। कटग्रहणेति कारकपूर्वस्यापि ग्रहणं न मन्तव्यम् । इह कृदकृतोग्रहणात् । ढ। मौत्रणेशी । वैनतेयो । शिलाया ढ इत्यस्य निरनुबन्धकस्य स्त्रियामभिधानं नास्ति । अण् । कुम्भकारी । कुपगवी । कथं चुराशीला चौरी । तप:शीला तापसी। णेऽप्यण कृतं भवतीति वक्ष्यति। अज औत्सी । वैदी । ठण। ताक्षिकी । रोचनिको । ठञ् । पारायणं वर्तयति पारायणि की । प्राग्वते. टज । करप् । इत्वरी । नश्वरी । अनीच इत्येव । बहुकुरुचरा । ख्युटप्रभृतीनां द्वयनुबन्धकत्वेऽपि टित्करणा मामर्यात् ग्रहणम् ।।