________________
जैनेन्द्रव्याकरणम् । भिधेयायामिति स्यातू द्विबहून स्याताम् । कुमार कुमार्य इति एकत्वात् स्त्रीत्वस्य अनेकत्योत्पत्तिश्च न स्यात् । कालितरा । भावप्रधानत्वात् स्त्रियामितिनिदेशस्य कुमारी देवदत्तेति सा. मानाधिकरण्यं च न स्यात् । अथापि स्त्रीसमानाधिकरणा. न्मृद इत्यभ्युपगम्येत एवमपि भूतमियं नारी । कारणमियं. कन्या । आवपनमियमुस्तिकेति भूतशब्दादिषु स्त्रीत्याः प्रस. ज्येरन् तस्मात् स्त्रियांवर्तमानान् मृद इत्येवाधिकृतम् । वक्ष्यति अजा । देवदत्ता । स्त्रियामिनि किम् । अजो देवदत्तः । शब्दजनितप्रत्ययवर्गाः स्त्रीत्वादय इहाभिप्रेताःन वस्तुवाः अव्याप्त शब्दो हि श्रोत्रपथं गतो लिङ्गसंख्यावन्तं स्वप्रत्ययं जनयति स प्रत्ययः । खदादिषु रसादिषु अभावादिषु च शब्देषु संभवति ।
अजाद्यतष्टाप् ॥४॥ अजादिभ्यः अकारान्तेभ्यश्च मृदः स्त्रियां वर्तमानेभ्यष्टावित्ययं त्यो भवति । पकारः टाडापोः सामान्यग्रहणार्थः। टकारः सामान्यग्रहणाविघातार्थः अन्यथा एकानुबन्धकग्रहणे न द्वयनुबन्धकस्येति विघातः स्यात्। बाधकबाधनार्थमनकारान्तार्थ च अजादिग्रहणम् । अजा । एडका । अश्वा । चटका । माषिका। जातेरयोदुइत्यस्यापवादः । बाला । हेाढा । पाका । वत्सा - मन्दा । विलाता । वयस्यनंत्य इत्यस्य प्राप्तिः । पूर्वापहाणा । अपरापहाणा। टिल्लक्षणस्यापवादः । निपातनाराणत्वम् । संभस्त्राजिनसणपिंडेभ्यःफलादाप् । संफला । भस्त्राफला अजिनफला। सणफला । पिंड फला । सत्याकाण्डप्रान्त शतकेभ्यः पुष्पादाप । सत्पुष्पा । प्राकपुष्पा । काण्डपुष्पा प्रांतपुष्या। शतपुष्पा । एकपुष्या । पाककर्णपर्णपुष्कफलमूलवालधोरित्पस्यापवादः । शूद्राचामहत्पूर्वात जाति
-
-