________________
३६२
महावृत्तिसहितम् । नास्ति तत्रापि व्यपदेशिवद्भावात्तदादित्वम् । पचे । पचावहे । पचामहे । थासःसे इति वक्ष्यति। पचसे । पचेथे । पचवे। पचते । पचेते । पधन्ते । लिट् । पेचे । पेचिवहे । पेचिमहे । लुट् । पक्ताहे। पक्तास्वहे । पक्तास्महे । लृट् । पक्ष्ये । पक्ष्यावहे । प्रत्यामहे । लोटो वक्ष्यति प्ररुतानां मिड दस्य टेरेत्वम् । तेनेह न अधति पचान इति ।
थासः से ॥६५॥ टिग्रहणमनुवर्तते । टितो लकारस्य थासः स इत्ययमादेशो भवति । पचसे । पेचिषे पक्तासे । पत्य से । एशिरसे. विधानेषु किं स्यादेत्वे प्रयोजनम् । प्रादेशे तु कृते मा भत् सापकं सवितादिषु।
लिटस्तझयोरेशिरे ॥ ६६ ॥ लिटादेशयोस्त झ इत्येतयोः एश् इरे इत्येताबादेशी भवतः । शकारः सर्वादेशार्थः परस्यादिर्मा भत् । पेचे । पेचिरे। नेमे । नेमिरे ।
मानां णत्वमथायुमणलतुसुसः ॥ ६ ॥
लिट इति वर्तते । लिटर माना स्थाने ययासंख्यं णलादयो नव आदेशा भवन्ति । गकारः ऐवर्थः । लकारः सर्वादेशार्थः । म इति द्वयोरकारयोः प्रश्लेषनिदेशः सर्धादेशार्थः । प्रत्यस्याकारस्याकारवचने प्रयोजनाभावात सर्वादेश इति चेत् समसंख्यत्वं प्रयोजनं संभाव्येत । अथवा धारिति कानिदेशात् परस्यादेः थकारस्थाकारः । पपाच । पेचिव पेचिम । पपक्य । पेचिष । पेचथुः । पेच । पपाच । पेचतुः। पेचुः । थेचोपदेशः इत्यादिना वेद । सैटीति एत्वं च । वमयोः कयादितिनियमादिद।
-
-