________________
जैनेन्द्रव्याकरणम् । ऽमी कषिः । ततोऽसौ तन्तुः । वृत्तं तत्र वर्म । चरितं तत्रेति चर्म । भसितं तत्रेति भस्म । ऋचन्ति तथा ऋक् ।
लस्य ॥३॥ अकार उच्चारणार्थः । लस्येत्ययमधिकारः । यदित अर्द्धमनुक्रमिष्यामः लस्य स्थाने तद्वेदितव्यम् । नव लकाराः पञ्च दितश्चत्वारो ङितः लट् लिट् लुट् लृट् लोट् लङ् लिङ् लुङ्लुङ् एषामनुबन्धापायेन लकारमात्रं स्थानित्वेनाधिक्रियते । त्य इति वर्तते । धोरिति च। धोर्विहितस्य त्यस्य लकारस्य ग्रहणात् लभते चडाल इत्येवमादि परिहृतम् ।।
मिब्वस्मस्सिप्यस्थतिप्तसझीड्वहिमहिथासा
__ यांध्वंतातांझङ ॥ ६४ ॥ लस्य स्थाने मिबादयः मादेशा भवन्ति । पकारः गोपिदिति विशेषणार्थः । इटष्टकारारबकेट इति विशेष णार्थः । झङो ङकारः प्रत्याहारार्थः । पचामि । पचावः । पचामः । पचसि । पञ्चथः । पचथ । पचति । पचतः । पचन्ति । टितां दविषये आदेशान्तराणि वक्ष्यन्ते। लिटो मानां णलादयः प्रादेशाः वक्ष्यन्ते । लुद पत्तास्मि । पक्तास्थः । पक्तास्मः । इत्येवमादि सेयम् । लृट् पक्ष्यामि । पक्ष्यावः। पक्ष्यामः । लोट आदेशाः वक्ष्यन्ते डितां लकाराणां मविषये च इह तानुदाहरिष्यामः । लङ् । अपचे । अपचावहि । अपचामहि । वल्यते लिङ । लुङ् । अपक्षि। अपक्ष्वहि । अपमहि। लुङ् । अपक्ष्ये। अपक्ष्यावहि । अपक्ष्यामहि ।
टिटेरे ॥ ६४ ॥ टितां लकाराणां ये दास्तेषां टेरेत्वं भवति। यत्र एक एवाच तत्र व्यपदेशिवद्भावाददन्तत्वमुक्तम् । यत्र च तदादिन्ये