________________
जैनेन्द्रव्याकरणम् |
३५०
धिर्थाचेतिसिद्ध इह सकर्मकार्थमुपादानम् । इदमेव ज्ञापकम् । अकर्मका अपि भवन्ति । आश्लिष्टः कन्यां देवदत्तः । - शिष्टा कन्या देवदत्तेन । आशिष्टं देवदत्तस्य । अतिशयितो गुरुं भवान् । अतिशयितो भवता गुरुः | अतिशयितं भवतः 1 उपस्थिता गुरु प्रधान् । उपस्थिता भवता गुरुः । उपस्थित भवतः । उपासितो गुरु भवान् । उपामितो भवता गुरुः 1 उपासित भवतः । अनूषिता गुरुं भवान् । अनूषितो भवता गुरुः । अनूषितं भवतः । अनुजातो माणवको माणविकाम् | अनुजाता माणविका माणवकेण । अनुजातं माणवकस्य । आरूढो वृक्षं देवदत्तः । आरूढो वृक्षो देवदत्तेन । आरुढं देवदत्तस्य । अनुजीर्णो वृषलीं देवदत्तः । अनुजीर्णा वृषली देवदत्तेन । अनुजीर्णं देवदत्तस्य । रुहे रगत्यर्थत्वादन्यदपि गत्यर्थकार्यं न भवति । आरोहयति वृक्षं देवदत्तेन । कर्मसंज्ञा न भवति ।
धिगत्यर्थञ्च ॥ ५८ ॥
धिसंज्ञेभ्यः गत्यर्थेभ्यश्च चुभ्यः कस्तयः कर्तरि भवति यथाप्राप्तं च । असितो भवान् । श्रासितं भवता । शयितो भवान् । शयितं भवता । गत्यर्थेभ्यः गतो भवान् ग्रामस् । गतो भवता ग्रामः । गतं भवता । याता भवान् । यातेा भवता ग्रामः । यात भवता | कालभावाध्वभिः कर्मभिः सकर्मकवद्भवति ॥ वत्करणात् स्वाश्रयमपि भवति । अतस्त्रैरूप्यम् । सुप्तो भवान् मासम् । सुप्तो भवता नासः । सुप्त भवता मासम् । श्रोदनपाक सुप्तो भवान् । श्रोदनपाकः सुप्तो भवता । ओदनपार्क सुप्तं भवता । क्रोशं सुप्तो भवान् । क्रोशः सुप्तो भवता । क्रोशं सुप्त भवता ।
४१