________________
३५८
महावृत्तिसहितम् । गच्छति ग्रामम् । धेर्भावे । आस्यते भवता । सुप्यते । कर्तरि भास्ते भवान् । स्वपिति भवान् । लौडौचेति वक्तव्ये प्रपञ्चेन निर्देशः किमर्थः सकर्म केम्यो लो भावे मा भूवन् ।
तयोर्व्यक्तखार्थः ॥ ५५ ॥ ___तयोषिकर्मणोः व्यसंज्ञाश्च तश्चखार्थाश्च भवन्ति । कतरि कृदित्यस्यायमपवादः । कर्मणि कर्तव्यः कटो भवता । भोक्तव्यः ओदनो भवता । भावे आसितव्यं भवता । शयितव्यं भवता । क्तः कर्मणि कृतः कटो भवता । सुकरः कटो अवता । सुपानं पयो भवता । दुः पानं पयो भवता । भावे स्वासं भवता । दुरासं भवता । सुग्लानं भवता । दुग्लानं भवता । प्रात्मकर्म विषक्षायां व्यक्तखार्थप्रयोगविषये सकर्मकाऽप्यवि. वक्षितकर्मकत्वेनाकर्मकात्तः । तेन भावे ज्यादयः । भेत्तव्यं कुसूलेन स्वायमेव । भावकर्म ग्रहणे तु वर्तमाने तयारिति ग्रहणं यथाविधिप्रतिपादनार्थं सकर्मकेभ्यः कर्मणि अकर्मकेभ्यो भावे इति ।
कर्तरि चारम्भ क्तः ॥ ५६ ॥ प्रारम्भः आद्यः क्रियाक्षणः भारम्भे यो धुर्वर्तते तस्माद्यः क्तः स कर्तरि भवति यथाम्राप्तं च मावकर्मणोः। प्रकृतो भवान् कटम् । प्रकृत: कटो अवता । प्रकृतं भवता । प्रभुक्तो भवानोदनम् । प्रभुक्तः ओदनो भवता । प्रभुक्तं भवता । धिभ्यस्तु धिगत्यर्थाच्चेति वक्ष्यति । आधक्रियाक्षणकाले। कटो नाभिनिर्वृतः तस्योपचारात् भूतकालेन प्रकृतशब्देन सामानाधिकरण्यम् ।
शिलषशीस्थासवसजनरुहज षश्च ॥ ५७ ॥ श्लिषादिभ्यः कर्तरि तो भवति यथाप्राप्तं च भावकर्मणोः ।