________________
जैनेन्द्रव्याकरणम् ।
३५७
अमैवेति तत्र वर्तते । पर्याप्तिवचन इति किम् । अलङ्करुते कन्याम् । अलं रुदित्वा । समर्थेविप्रति वक्तव्ये गुरुकरण किम् । सामर्थ्य मात्रे मा भूत् । शक्त्वा भुङ्क्ते । बलेन भुते । असम इति किम् । पर्याप्तं भुङ्कं । प्रभूतं भुङ्क्ते । अन्यूनं भुङ्क पूर्वसूत्रे शक्तिः सौकर्ये वर्तते माखमर्थे ।
कर्तरि कृत् ॥ ५२ ॥
कर्तरि कारके संज्ञास्तया भवन्ति । अनिर्दृिष्टार्थास्त्याः स्वार्थे भावे प्राप्ताः । कारकः | कर्ता । ये कृतः कर्तरि नेष्टाः तेषां करणाधिकरणायोर्य डित्येवमादिरपवाद उक्तः । भव्य गेयप्रवचनीयोपस्थानीय जन्याल्पाव्या
पात्या वा ॥ ५३ ॥
1
भव्य इत्येवमादयः शब्दाः कर्तरि वा निपात्यन्ते । तयेrयं तखार्था इत्यस्मिन् प्राप्ते पक्षे कर्तरि विधानम् । भवत्यसौ भव्यः । सव्यमनेनेति वा । गेयेा माणवकः ङ्गस्य गेया माणवकेन षडङ्गः । प्रवचनीयो गुरुः शास्त्रस्य । प्रवचनीयं शास्त्रं गुरुणा । उपस्थानीयः शिष्यो गुरेः । उपस्थानीयेा गुरुः शिष्येण । जायते असौ जन्यः । जन्यमनेन । जनिवध्येोरित्यै प् प्रतिषेधः । अथवा शक्तिहश्चेति चकारेण जनेयः । आप्लवतेऽसौ आप्लाव्यः । आप्लाव्यमनेन । आपततीत्यापात्यः । श्रापात्यमनेन ।
लः कर्मणि च भावे चाधेः ॥ ५४ ॥
ल इति लडादीनां नवानामुत्सृष्टानुषन्धनां सामान्येन ग्रहणं जसा च निर्देश: 1 लकाराः सकर्मकेम्यो धुभ्यः कर्मणि कर्तरि च कारके भवन्ति भावे कर्तरि च धिसंज्ञेभ्यः । कर्मणि । क्रियते कटः । गम्यते ग्रामः । कर्तरि करोति कटम् ।