________________
३५४
महावृत्तिसहितम् ।
द्वयमपतर्षम् । त्र्यहापतर्षम् | त्र्यहमपतर्षम् । द्व्यहारयास गाः पाययति । द्वयमत्यासम् । त्र्यहनत्यासम् । कालाध्वन्यविच्छेद इतीपू । तृष्यस्वरिति किम् । द्वयहमुपोष्य भुङ्क्त े । क्रियांतर इति किम् । अहरत्यस्य गतः । अत्रास्यतिर्न क्रियान्तरे वर्तते किंतु रानावेष | काल इति किम् । पञ्च पूलान् अस्यस्य तिलान् भक्षयति ।
नाम्न्यादिशिग्रहः ॥ ४३ ॥
इपीति वर्तते । इबन्ते नामशब्दे वाचि प्रदिशिग्रह्निभ्यां णम् मधति । नामादेशमाचष्टे । नामान्यादेशम् । नामग्राहमाकारयति । नामानि ग्राहम् ।
भावनिष्टोक्तौ कृञः त्काणमौ ॥ ४४ ॥
सिंज्ञके वाचि प्रनिष्टोक्तौ गम्यमानायां कृजः तकायामौ भवतः । वेत्यधिकारात टकाये सिद्ध पुनः स्काग्रहण क इत्यनेन वृत्तिविकल्पार्थम् । भादीति तत्र वर्तते तेनेात्सर्गो तकाल्ये सविकल्प न स्यात् । ब्राह्मण पुत्रस्ते जातः किं तर्हि वृषल नीचैःकृत्याचष्ठ । नीचैः कृत्वा । नीचैः कारन् । उच्च - मन प्रियमाख्येयम् । नीचैराख्यायमानमनिष्ठ भवति । ब्राह्मण कन्या ते गर्भिणी । तर्हि वृषल उच्चैःकृत्याचष्टें । उच्चैः कत्वाउच्चै कारम् । कन्यागर्भः उच्च राख्येयमाना अनिष्टः । अनिष्टोक्ताबिति किम् | उच्चैःकृत्याचष्ट पुत्रस्ते जात | तिरश्च्यपवर्गे ॥ ४५ ॥
।
अपवर्गः समाप्तिः तिर्यच्छन्दे वाचि अपवर्गे गम्यमाने कृञः टकाणौ भवतः । तिर्यक्कृत्य गतः । तिर्यक्कृत्वा । तिर्यक्कारम् । समाप्य गत इत्यर्थः अपवर्ग इति किम् । तिर्यक् कृत्वा काष्ठं गतः । तिरश्चीति तिर्घ्यदानुकरण निर्देशः । प्रकृतिवदन्डुकरणं भवतीति रूपसिद्धिः ।