SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । वर्तते । एककत कादिति च पूर्वकालत्वं सभवतः संबन्धनीयम्। मूलकोपदंशं भुङ्क्ते। मूल केनापदंशं भुङ्क्ते । वा मादीतिविभाषया वाश्मः । इत जर्ध्व यानि वासंघकानि वक्ष्यन्ते तानि भादिग्रहणेन गृह्यन्ते सर्वत्रास्मिन् प्रकरणे वेत्यनुवर्तते तेन त्कापि भवति । मूलकेनोपदंश्य भुङ्क्त । कर्मणः साधकतम त्वविवक्षायां मा भवति। अथवा उपइशिगुणस्य भुजेरेतरकरणम् । हिंस्यादेककर्मकात् ॥ ३४ ॥ मायामिति वर्तते । हिंसार्थेभ्यो धुभ्योऽनुप्रयोगेणैककर्मकेभ्यः भांते वाचि णम् भवति । दण्डाघातं गतः सादयति । दण्डेनाघातम्। करणे इत्यनेन हन्तेघः पूर्वनिर्णयेन णम् विदितस्तस्यैबानुप्रयोगो द्रष्टव्यः । हन्तेरन्यदपीहोदाहरणम् । दण्डाताडं गाः कालयति । दण्डेनाताडम् । खङ्गप्रहारं शत्रुन् विजयते । खगेन प्रहारम् । एककर्मकादिति किम् । दण्डेनाहत्य भूमिं गोपालको गाःसादयति। ईपि चोपपीडधकर्षः ॥ ३५ ॥ व्रजोपरोधम् । व्रजे उपरोधम् । व्रजेनोपरोधम् । उपागयुपकर्ष धानाः पिमष्टि । पाणावुपकर्षम् । पाणिनोपकर्षम् । प्रमाणासत्त्योः ॥ ३६ ॥ इपि मायां चेति वर्तते । प्रमाणमायाममानम् । भासत्तिः सन्निकर्षः । इबन्ते भान्ते वाचि धोर्णम् भवति प्रमाणासत्योर्गस्यमानयाः । झनोत्कर्ष गडिका छिनत्ति । ज्यङ्कलोत्कर्षम् । व्यङ्गुलेनोत्कर्षम् । आसत्तौ केशग्राहं युध्यन्ते । केशेषु ग्राहं केशहिं सन्निकष्ठं युध्यन्ते इत्यर्थः । एवं अस्यपनादं युध्यते असिष्वपनोदम् । असिमिरपनादम् । हस्तग्राहम् । हस्तेषु ग्राहम् । हस्तैाहम् । ४०
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy