________________
-
३५०
महावृत्तिसहितम् ।
खौ ॥ २८ खुविषये च बनातेर्णम् भवति । चण्डालिकामन्धं बंद्धः । अहालिकाबन्धं बद्धः । महिषिकाबन्धं मयूरिकाबन्धं क्रौञ्चवधं बहाः। णमन्ताः बन्धविशेषाणां संज्ञा एताः अर्थप्रदर्शन तु यथाकथं चित्करणे न वाचा अन्यथा वा दर्शनीयम् । अन्ये तु ध्याचक्षते खुभूतो यो बन्धः तस्मिन् करणवाचिनि वाचि बनातेर्णम् भवति ।
कोर्जीवपुरुषयोन शिवहोः ॥ ३० ॥
जीव पुरुष इत्येतयाः कर्तृवाचिनोर्वाचोर्यथाक्रमं नशियहिभ्यां णम् भवति । जीवनाशं नश्यति । जोवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो भूत्वा वहतीत्यर्थः । कर्तीरिति किम् । जीवेन नष्टपुरुषं वहन्ति । अत्र करणं कर्म च वाक्।
उद्ध्वे शुषिपूरोः ॥३१॥ कोरिति वर्तते । उर्वशब्दे कर्तृवाचिनि वाचि शुषिपूरि इत्येताभ्यां णम् भवति । उर्वशोषं शुष्कः । उर्ध्वः इत्यर्थः । उर्दु पूरं पूर्यते उर्ध्व पूर्यत इत्यर्थः ।
कर्मणि चेवे ॥ ३२ ॥ शब्दे कार्यस्थासंभवादिवार्थ उपमानं गृह्यते । इवशब्दार्थ वर्तमाने कर्मणि कर्तरि भूवादिधोर्णम् भवति कर्मणि । घृतनिधायं निहितः । घृतमिव निहित इत्यर्थः । एजं जीवितरक्षं रक्षितः । कर्तरि अकरनाशं नष्टः । अकर इव नष्ट इत्यर्थः। एवमजकनाशं नष्टः। चूडकनाशं नष्टः। पिषादिषु यथाविध्यनुप्र. योगो न वक्तव्यः। धुयोग इति वर्तते तत्र प्रत्यासत्तेरसिधानवशाद्वा घृत एव धोणंम् तस्यैवानुप्रयोगः ।
उपदंशो भायाम् ॥ ३३ उपपूर्वादंर्भान्ते वाचि णम् भवति धुयोग इति च