________________
जैनेन्द्रव्याकरणम् ।
३४
मपि ईपिथिं पूर्वविप्रतिषेधेन बाधित्वा अयमेव राम अविघातं हंति चौरान् कोऽत्र विशेषः अनेन नित्यः सविधिः तस्यैव चेोरनुप्रयेोगश्च भवति । हस्ते वर्तिग्रहः ॥ २५ ॥
करण इति वर्तते हस्त इति अर्थनिर्देशः । हस्तवाचिनि करणे वाचि वर्तयतिगृह्णातिभ्यां णम् भवति । हस्तवर्त वर्तयति हस्तेन वर्तयति इत्यर्थ. । एवं पाणिवर्तम् । करवर्तम् । हस्त ग्राहं गृह्णाति । हस्तेन गृह्णातीत्यर्थः । एवं पाणिग्राहं करग्राहम् । स्वेषु पुषः ॥ २६ ॥
1
करण इति वर्तते स्व इति स्वरूपस्य तद्विशेषाणां च ग्रहणम् । बहुत्वनिर्देशात् । स्ववाचिकरणवाचिनि पुषेद्वर्णम् भवति । प्रात्मात्मीयज्ञातिधनानि स्वशब्देनेष्यन्ते । स्वपोषं पुष्टः । विद्यापेोषं गोपाषं मातृपोषं पितृपोषं रैपोष पुष्णाति । सर्वत्र घञन्तेन णमन्तस्यार्थकथनं द्रष्टव्यम् । स्वेन पोषं पुष्टं इति स एव पुषिः काल साधनभेदादन्यत्व गतः पुषिणा युज्यते यथा एषितुमिच्छति षिषिषति इषिरिषिणा युज्यते ।
स्नेहने पिषः ॥ २७ ॥
करण इति वर्तते । स्निह्यतेऽनेनेति स्नेहनं स्नेहनवा - चिनि करणे वाचि पिषेद्धर्णम् भवति । घृत पेषं पिनष्टि । घृतेन विनष्टीत्यर्थः । एवं तैलपेषम् । उदपेषम् । पेषमीत्युदकस्येदादेशः ।
वन्धोऽधिकरणे ॥ २८ ॥
अधिकरणे वाचि बनातेर्णम् भवति । चक्रबन्धं बदुः । चक्रे बद्ध इत्यर्थः । एवं चारकबन्धम् । दृष्टिबन्धम् । गुप्तिबन्धम् । वध्यमानाधारे वाचि णम् भवति न बन्धाधारे । हस्ते वनातीति वेत्यधिकाराद्वा न भवति ।