________________
जैनेन्द्रव्याकरणम् |
॥ ॐ नमः ॥ धुयोगे त्याः ॥ १ ॥
धुशब्देन ध्वत्र निर्दिष्टः । श्रभिधेये अभिधानस्योपचारात् । धूनां योगे सति प्रयथाकालोक्ता अपि त्याः साचो भवन्ति । विश्वदृश्वा ऽस्य पुत्रो अनिता । कृतः कृतः स्वो भाविता । भाषिकृत्यमासीत् विश्वदृश्वेति भूतकालः जनितेत्यनेन भविष्यत्कालेन साधुर्भवति । इहोपसर्जनभूतं सुबन्तं प्रधानभूतस्य मिङन्तस्य कालमनुवर्तते धोरितिवर्तमाने पुनर्धग्रहणं अस्तिभूजनिपरिग्रहार्थम् । स्य इति वर्तमाने पुनस्त्यग्रहणं त्यमात्र परिग्रहार्थम् । गोमान् भवितेति मत्वन्तस्य वर्तमानकालस्य प्रयथाकालत्येन साधुत्वम् ।
क्रियासमभिहारे लोट् तस्य हिस्वौ वा तध्वमोः ॥ २
३४१
क्रियासमभिहारविशिष्टे ध्वर्थे वर्तमानाद्वोर्लोट् भवति सर्वलकारापवादः । तस्य लोटः हि स्व इत्येतावादेशौ भवतः तध्वमोस्तु वा भवति । क्रियासमभिहारे लोडिति योगविभाग: कर्तव्यः । ततस्तस्य हिस्ौ भवतः । किमेवं सति लब्धम् । अन्यत्र यो लोडादेशी हिस्वी प्रसिद्धौ ताहि भवतः तेन मविधिदविधिव्यतिकरो न भवति । वातध्वमो रित्यत्र ध्वमा सहनिर्देशातशब्दस्य थादेशस्य वहोर्ग्रहणम् । लुनीहि लुनीही इत्येवाहं लुनामि । छाँवां लुनीवः । लुनीहि लुनीहि इत्येव त्वं लुमासि युवां लुनीथ. । यूयं लुनीथ । तशब्दस्य तु वा भवति लुनीस लुनीत इत्येव यूयं लुनीथ । लुनीहि लुनीहि इत्येवायं लुनाति । लुनीतः । इमे लुनन्ति । भूते लुनीहि लुनीहि इत्येवाहमला विषम् । आषांमलाविष्व । वयमलाविष्म । एवं युष्मदम्ययोरपि । वर्त्स्यति लुनी
1