________________
pannataunintenomenonesentm
a nason
__ महावृत्तिसहितम् । हिलुनी हीत्येव लविष्यामि । आवां लविष्याव: । वयं लविष्यामः । एवं युष्मदन्य योरपि । अधीष्व अधीष्व इत्येवाह. मधीये भावामधीवहे । वयमधीमहे । एवं युष्मदन्ययोरपि योज्यम् । वमन्तु पक्षे प्रवणम् । अधीध्वमधीध्वमित्येवं यूयमधीध्वे । भूते अधीष्व अधोध इत्येवाहमध्यगीषि आवामध्यगीष्वहि। वयमध्य गीमहि । एवं सर्वत्र । वत्स्यति अधीध्व इत्येवाहमध्येष्ये । आवामध्येष्यावहे । वयमध्येष्या. महै । एवं युष्मदन्य योरपि । एवं शेषेष्वपि लकारेषु योज्यम् । द्वित्वमपेक्ष्य लेट् क्रियासमनिहारस्य द्योतकः योग इति वर्तते प्रत्यासत्तेर्यत एव लाद विधीयते तस्यैवानुप्रयोगः कालास्मदायेकत्वादी नामभिव्यक्तये क्रियते ।
प्रचये वा ॥३॥ प्रचयः समुच्चयः । स चैकस्मिन् द्विप्रभृतेरध्यावायः। प्रचये उपाधौ वा लोट् भवति तस्य हिस्वावादेशी भवतः तध्वमोस्तु वा । अयं सर्वलकारप्राप्तौ विकल्पः । कर्मप्रचयो ग्राममट । नगरमट गरिमट इत्येवाहमटामि आवामटावः । वयमटामः । ग्राममट नगरमट गिरिमट इत्येव त्वमसि । युवामटथः । यूयमटथ । तशब्दस्य तु वा ग्राममटत नगरमटत गिरिमटत इत्येव यूयमटथ । ग्राममट नगरमट गिरिमट इत्येवायमटति इमौ अटतः । इमे अटन्ति । वावचनात् ग्राममटामि नगर मटामि गिरिमटामि इत्येवाहमटामि । आवाम टावः । वयमटामः । एवं युष्मदन्ययोरपि । एवं भूते पत्य॑ति सर्वलकारेषु योज्यम् । दभाग्भ्यः जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येवा. हभधीये भावामधीवहे वयमधीमहे । जैनेन्द्रमधीष्व तर्कमधीष्व गणितमधीष्व इत्येव स्वामधीधे युवामधीयाथे यूयमधीध्वे । ध्वमस्तु वा जैनेन्द्रमधीध्व तर्कमधीध्वं गणितमधीध्वं इत्येव
-
-
-