________________
mom
PRABAR
जैनेन्द्रव्याकरणम् । चित्रशब्दस्याथै गम्यमाने यच्चयत्रयोर्वाचो लिङ् भवति । सर्वल कारापवादः । यच्च तत्र भवान् लाभं कुर्यात् यत्र तत्र भवान् लाभं कुर्यात् विद्वान् वृद्धः सन्नुत्कृष्टः चित्रमाश्चर्यमद्भुतं विस्मयमित्येषामन्यतमप्रयोगः । लिहेतुरस्तीति भूते क्रियावृतौ वा वय॑ति तु नित्यः ।
शेषेऽयदौ लट् ॥ १२७ ॥ यच्चयत्राभ्यामन्यश्चित्रार्थः शेषः । शेषे चित्रार्थे गम्यमाने लड्भवति यदिशब्दश्चेद्वाडू भवति । नयमपि सर्वलकारापवादः । चित्रमाश्चर्यमद्भूत विस्मयनित्यमन्धो नाम पुस्तकं वाचयिष्यति मूको नाम जैनेद्रमध्येष्यते । लिङ्हेत्वभावात् लुङ्वा न भवति । अयदाविति किम् । अश्चय यदि स भुजीत अत्रानवक्तृप्तिश्चित्रार्थश्च प्रतीयते जातुयद्यदायदौ लिडिति लिड्भूते बाशेषादिति लङधिकारो निवृत्तः ।
उताप्योः पृष्टोक्तौ लिङ् ॥ १८ ॥ उत्त अपि इत्येतयोर्वाचोः पृष्टस्योक्तो गम्यमानायां लिङ्ग भवति । सर्वलकारापवादः । किमकार्षीः कटं देवदत इति पृष्टः प्रत्याह उत कुर्यात् । अपि कुर्यात् कटं कृतवानित्यर्थः । इतः प्रभृति यत्र लिहेतुरस्ति तत्र वस्यति भूते च नित्यो लङ् उताकरिष्यत् । अप्याकरिष्यत् । पृष्टोक्ताविति किम् । उत दण्डः पतिष्यति । अपि धास्यति द्वारम् । अत्र प्रश्नीघट्टनं च प्रतीयते।
इच्छोद्बोधेकच्चिति ॥ १२ ॥ इच्छोरोधः स्वाभिप्रायनिवेदनम् । इच्छो द्वोधे गम्यमाने