________________
Meenumanianmommmmm
mmmm
mmonsomnindmmubaniansomdeasinommonlienomenimamstendituneshundatinandinindias
proneesonam
महावृत्तिसहितम् । लिङ् भवति कच्चिच्छब्दाप्रयोगे । सर्वलकारापवादः । कामो मे अधीयीत भवान् । अभिलाषो मे इच्छा मे अंजीत भवान् । भकञ्चितीति किम् । कच्चिज्जीवति मे माता । कञ्चिज्जीवति मे पिता माहाविद त्वां पृच्छामि कच्चि जीवति पार्वती ।
संभावनेऽलमि स्थानिनि ॥१३० ।। लिङिति वर्तते । 'संभावनं क्रियायां सामर्थ्यश्रद्धा। अलंशब्दश्चेह पर्याप्तिवचनः । यस्य यत्रार्थो गम्यते न चासो प्रयुज्यते स तत्र स्थानीशब्दः । अलमर्थविशिष्टे संभावने लिङ् भवति अलंशब्दे स्थानिनि । सर्वलकारापवादः । शक्यसंभावने अपि हस्तिनं हन्यात् । अपि स्तुयाद्राजानम्। अशक्य संभावने अपि पर्वतं शिरसा भिन्द्यात् । अपि स्वारीयंकं भुञ्जीत । अपि समुद्रं दोा तरेत् । अलमिति किम् । निर्देशस्थायी मे देवदत्तो मन्ये गमिष्यति ग्राम अनाहमिति । स्थानिनीति किम् । वसनि तेत सुराष्ट्रीषु वन्दिष्यते अलमर्जतम्। क्रियाभक्ती वय॑ति भूते लुङ् भवति ।
तद्वाचि धो वाऽयदि ॥ १३१ ॥ अलमीति वर्तते तच्छब्देन संभावनं परामृश्यते अलमर्थ विशिष्टे सम्भावनवाधिनि धौ साधि वा लिङ् भवति । मच्छब्दाप्रयोगे पूर्वण नित्यो लिङ् ।
हेतुफलयोर्लिङ्॥ १३२ ॥ हेतुः कारणं फलं कार्य हेतौ तत्काले च ध्वथै वर्तमानाहोः लिङ भवति। अतिथींश्चेल्लभेत भृशमन्नं ददीत यदि गुरु पुंजां कुर्वीत स्वर्गमारोहेत् । वेत्यनुवर्तनात्पक्षे लुट् । अतिथींश्चेल्लप्स्यते भृशमन्नं दास्यते । लिङिति वर्तमाने पुनर्लिङ्ग्रहणं वयति यथा स्यादिह मा भूत् । वर्षतीति धावति । हन्तीति |
Homemaramanianusamme
mmonsolementenmmmmmmmmment