________________
३२८
महावृत्तिसहितम् ।
भुजामः । प्रेममावास्यागामिनी एतस्यां देवान् पूजयिष्यामः अतिथीन् भोजयिष्यामः । अव्युत्थिती यावदजीवीत् भृश. मन्नमदात् यावज्जीविष्यति भृशमनं दास्यति ॥
वर्त्यत्यवरेऽवधेः ॥ ११२ ॥
यद्यपि लड्लुडिति प्रकृतं तथापोह वहणाल्लुट एव प्रतिषेधः वतिकाले अवरस्मिन् भागे लुरान भवति । असामीप्यायुह्नित्यर्थोऽयमारंभ. । काल विभाग उत्तरत्र वक्ष्यते । देशविभागे अयं प्रतिषेधः । योयमध्वा गन्तव्य आ चित्रकूटात् तस्य यदुवरं मथुरायाः तत्र द्विरोदनं भोक्ष्यामहे द्विः सक्तूपास्यामः । वर्त्यतीति किम् । योऽयमध्वा गतः आ चित्रकूटात् तस्य यदुवरं मथुरायां तत्र युक्ता द्विरध्यैमहि । अवर इति किम् । योग्यमध्वा गन्तव्य आ चित्रकूटात् तस्य यत्परं मथुरायास्तत्र युक्ता द्विरध्येतास्महे । अवघेरिति किम् । योऽयमध्वा गन्तव्यो निरवधिकः तस्य यदवरं मथुरायाः तत्र युक्ता द्विरध्येतास्महे ।
कालविभागेऽनहोरात्राणाम् ॥ ११३ ॥
वर्यस्यवरेऽवधेरिति वर्तते । वर्त्स्यति काले अवरस्मिकालविभागेऽहोरात्र संबंधविवर्जिते लुरान भवति । पूर्वेण प्रतिबेधे सिद्धेप्यहोरात्र संबंधिविभागप्रतिषेधार्थं वचनम् । कालविभागग्रहणमिहार्थमुत्तरार्थं च । योयं संवत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्रार्हत्पूजां करिष्यामहे अतिथिभ्यो दानं दास्यामहे | वस्तीत्येव । योयं संवत्सरोतीतस्तस्य यदवरमाग्रहायण्याः तत्र युक्ता द्विरध्येमहि । अवर इति किम् । व पर इति वक्ष्यति । अवधेरित्येव । योयं निरवधिकः काल आगामी तस्य यदवरमाग्रहायण्याः तत्र युक्ता द्विरध्येतास्महे ।