________________
महावृत्तिसहितम् ।
भवता । ईषदाढ्यभव भवता । सुखमनाढ्य माढ्यङ्कियते स्वाढ्यं. करे। देवदत्तो भवता। ईषदाढ्यकरः । दुराढ्यङ्करः । सत्रन्यासेपरत्वात्कर्तृकर्मणोः वामपं कृत्वा पश्चात्पूर्वस्य क्रियतेच्यार्थयोरिति किम् । स्वाठ्य न भयते । वाढ्य न क्रियते। यदा करोति विकारार्थः तदा सुकटकराणि वीरणानि । यदा निष्यत्तिवचना तदा सुकरः कटो धीरणैरिति ।
युज्जातः ॥ १०६ ॥ स्वीषदुसि कृछाक इति वर्तते आकारान्तेभ्यो धुभ्यो युज भवति स्वादिषु कृळाकार्थेषु वाक्षु । सुपान पयो भवता। ईषस्पानम् । दुष्पानम् । सुग्लानम् । ईषद्लाम् । सुग्लानम् । ईषद्गलानम् । दुग्नानम् । खापवादोयम् । प्रायेणेति वर्तते । तेन दुःशब्दे वाचि शासियुधिशिधृषिमृषिभ्यः युज् भवति । दु शासनः । दुर्योधनः । दुर्दर्शनः । दुर्घर्षणः । दुर्मर्षणः । सुदर्शनादिषु वसो द्रष्टव्यः ।
भवद्वा तत्सामीप्ये ॥ १०७ ॥ अवच्छब्दो वर्तमानपर्यायः समीपमेव सामीप्यं भवतीव त्यविधिर्भवति वा तत्समीपे भूते भविष्यति च ध्वर्थ वर्तमानाद्धोः । संप्रतीत्यारभ्य आ पादपरिसमाप्तैर्विहितास्त्या अतिदिश्यन्ते। कदा देवदत्त भागतासि । एष पागच्छामि । आग. न्छन्तमेव मां विद्धि । एष भागामुकोस्मि । वावचनाद्यथाप्रातम् । एष भागतास्मि कदा देवदत्त गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । गन्तारमेव मां विद्धि । पक्षे एष गमिष्यामि एषोस्मि गन्ता । वत्करणं किमर्थम् । प्रकृतिविशेषा. दिपरिग्रहार्थम् । तत्मामीप्यग्रहणं व्यवहितानत्यार्थम् । कदा ग्राममगच्छत् । श्वः करिष्यति इह मा भूत। नन्वत्र लुटा भवितव्यं कथ तृट् । पदसंस्कारवेलायां श्वःप्रभृतिपदानामसंनि.