________________
३२२
महावृत्तिसहितम् । भावानिशुभक्षिकाम् । ओदनोजिकाम् । पयःपायिकाम् । वृजकाभ्यामित्यत्र कर्तरीत्यनुवर्तनात् कर्मणि या ता सत्र कृतीत्यनेन तासः। ऋणं यत्परस्य धार्यते तत्र इक्षमक्षिकां मे धारयसि श्रोदनभाजिकां पयःपायिकाम् । उत्पत्तौ। एनक्षिका मे उदपादि। ओदनभोजिका । पयःपायिका । विभाषानुवर्तनात् क्वचिन्न भवति । घटचिकीर्षा मे तदपादि । ओदनबुभुक्षा मे उदपादि।
प्राक्रोशे नश्यनिः ॥ ३ ॥ आक्रोशे गम्यमाने नजि वाचि धोरनित्यो भवति । क्यादीनामपवाद । अकरणिस्ते वृषल भूयात् । अप्रयाणिस्ते वृषल भूयात् । आक्रोश इति किम् । अकृतिस्तस्य पटस्य । नीति किम् । मृतिस्ते वृषल भूयात् ।
युध्या बहुलम् ॥ ४ ॥ भावे प्रकर्तरि स्त्रियामिति च निवृत्तम् । युध्यसंज्ञाश्च बहुलं भवन्ति । भावकर णाधिकरणेषु युड् विहितान्यत्रापि भवति। निरदन्ति तदिति निरदनम् । अवसेचनम् । अवश्रावणम् । राजा भुज्यन्ते राजभाजना: शालय: । क्षत्रियपान मधु । राजाच्छादनानि वस्त्राणि । प्रयतति तस्मात् प्रयतनम् । प्रस्कन्दनम् । प्रदर्दनम्। भावकर्मणोया उक्ताः ततोऽन्यत्रापि भवन्ति तेन स्थानीयं चूर्णम् । दीयते ऽस्मै दानीयोतिथिः । ज्ञानमावणाति आब्रियते धानेन ज्ञानावरणीयम्। दर्शनावरणीयम् । वेदनीयम् । माहनीयम् । बहुलवचनादन्येपि कृतः उक्तादन्यत्र भवन्ति । गले चोध्यते गलचोपकः । पादाभ्यां हियते पादहारकः ।
नप् भावे क्तः ॥ ५ ॥
mommmmmmmmmmnangee