________________
३१८
महावृत्तिसहितम् । स्था गा पा पच् इत्येतेभ्य. स्त्रीलिगे मावे तिर्भवति भावग्रहणमकर्तरीत्यस्य निरासार्थसम् । प्रस्थितिः। सस्थितिः । गइत्यविशेषेण ग्रहणम् । उपगीतिः । उद्गीतिः। पिबतेः प्रपीतिः। निपीतिः । पक्तिः। प्रातो गाविति षितः इति च अङ् प्राप्तः तद्वाधनार्थमिदम् । गणे व्यवस्थायामसज्ञायामिति निर्देशादङपि भवति । संस्था । श्रुयजीषिस्तुभ्यः स्त्रियां करणे युद्धाधनार्थ तिर्वक्तव्यः। श्रूयतेऽनयेति श्रुतिः । इष्टिः । इष्टः । स्तुतिः ॥
वजयजः क्यप् ॥ ८ ॥ __ भाव इति वर्तते। व्रज यज इत्येताभ्यां स्त्रीलिगे भावे क्यप् । व्रज्या । इज्या। पित्करणमुत्तरार्थम् ॥ समजनिषदनिपदमनविदषुशीभृत्रिणः खा ॥ ८१ ॥
भाव एवेति निवृत्तम् । इयमनुवर्तते । सम मादिभ्यः स्त्रिया क्यप भवति खुविषये । समजन्ति तस्यां समज्या। क्यपि वीमाव: कस्मान्न भवति । बहुलंखाविति तत्रापेक्ष्यते । भिषीदन्ति अस्या निषद्या । निपद्यते अस्यां निपद्या। केचित्पदिस्थाने पति पठति। मन्यते अन या मन्या। विद्यते अनया विद्या । सुनोति तस्यां सुत्या । शेते अस्यां शय्या । भरणं भृत्या। माय एवाभिधानं करणे का। इत्या। कथ भार्या कर्मणि भविप्यति । अथवातज्याश्चार्ह इत्येवमादिषु विशेषेण विधानात् । असंज्ञानामिपेस्त्रीत्या न बाधकाः मनिबुद्धिपूजार्थाच्च कर्मणि भती रजःकृष्यासुतिपर्षदो वल इति ज्ञापकात् कचिक्तिरपि | भवति । मतिः । वित्तिः । आसुतिः । भृतिः ॥
कृजः श च ॥ २ ॥ करोलेः स्त्रियां शो भवति क्यप् च । यदा भावकर्मा