________________
mommandu
Sadananesamataman
जैनेन्द्रव्याकरणम्।
परस्यादेः॥५१॥ परस्य कार्य शिष्यमाणमादेरलः स्थाने वेदितव्यम् । क च परस्य कार्यम् । यत्र कानिर्देशेन ईकेत्यव्यवाये पूर्वपरयोरिति परस्य । ताप्रकृतिः।ईदासः । श्रासीनो भुङ्क्ते। यन्तगैरीदपः । द्वीपः । अन्तरीपः । समीपः॥
शिसर्वस्य ॥ ५२ ॥ शिदादेशः सर्वस्य स्थाने वेदितव्यः । जशशसोः शिः. धनानि तिष्ठन्ति । वनानि पस्य । इदमेव ज्ञापकयनुब. न्धकृतमनेकालत्वं न भवतीति। तेन दिव उदित्येवमादिष सर्वादेशो न भवति । ण अल णलिति प्रश्लेषनिदशाणणलादयः सर्वादेशाः । अशभ्य शिति परस्यादेरितोमम्बाधित्वा शित्वेन परत्वाद्वा सर्वादेशः॥
टिदादिः ॥ ५३ ॥ टिद्यः स तानिर्दिषस्यादिर्भवति । लाद्यगस्येत् । लविता । लवितुम् । लवितव्यम् । तास्थान इत्यस्यायम पवादः । चरेष् इत्येवमादौ तानिर्देशाभावान्नादौ विधिः । अथवा मध्ये ऽपवादाः पूर्वान्विधोन्बाधन्त इति तास्थान इत्यस्यैव बाधो न तु ल्पःपरत्वस्य ॥
किदन्तः ॥५४॥ विद्यः स तानिर्दिस्यान्ते भवति।मुण्डो भीषयते। भियो णिच हेतुभयार्थे इतः पुनित्यमिति षुक णेः । भीमेहें तुभय इति दः । पूर्वोक्तपरिहारादातः क इत्येवमादिषु नातिप्रसङ्गः॥
परेराऽची मित् ॥ ५५॥
MinindianRNATION
-
-