________________
३१२
महावृत्तिसहितम् ।
हन्यते तेनास्मिन्ा विघ्नः । आयुध्यन्त्यनेनेति श्रायुधम् ॥ गावदः ॥ ५३ ॥
गिपूर्वाद् अदेरच् भवति । प्रादनं प्रथमः । विचसः । संघसः । घसृलुञ्धञ्सनविति प्रदेर्घस्लादेशः । गाविति किम् | घासः । अस्मिन् प्रकरणे यत्रेपा गिर्निर्दिश्यते तत्र गिलक्षण: प्रादिलक्षणो वा सविधिः ॥
नौ णश्च ॥ ५४ ॥
निपूर्वाद देणों भवति अञ्च । न्यादः । निघसः ॥ पण: परिमाणे ॥ ५५ ॥
पणेर्घजिणे वा नास्ति विशेषः इत्यारंभसामर्थ्यादच एवानुवृत्तिः । पणः परिमाणे गम्यमाने अज् भवति । पण्यत इति पणः सूलकपणः । शाकपणः
पशुष्वजः समुदोः ॥ ५६ ॥
सम उद् इत्येतयोर्वाचोरजेद्धौरज् भवति पशुविषये । समजः पशूनां समुदाय इत्यर्थः । उदजः । पशुनामुच्चालन मित्यर्थः । पशुविति किम् । समाजः साधूनाम् । उदाजः शकुनीनाम् । ष्विति । निट् कुत्वं विधेयते प्रजेस्तु वोभावेन भवितव्यमिति श्रसत्वादविशेषणां नास्तीति कुत्वं न भवति । ग्लोऽक्षे ॥ ५७ ॥
ग्लह ग्रहणे इत्यस्मादज् भवति अक्षविषये । अक्षेषु ग्लहः । प्रक्ष इति किम् । ग्लाहः ।
प्रजने सुः ॥ ५८ ॥
प्रजना गर्भाधानम् । प्रजनविषये तु इत्येतस्मादज् भवति गवामुपसरः । गर्भाधानाय स्त्रीगवीषु नृषाणामुपसरण