________________
महावृत्तिसहितम् । भ्रंमतीत्यर्थः। लिप्सायामिति किम् । प्रग्रहो देवदत्तस्य राज्ञा ॥
परी यज्ञे ॥ ४३ ॥ परिपूर्वाग्रहेपञ् भवति यज्ञविषये। उत्तरः परिग्राहः । यज्ञ इति किम् । परिग्रहो देवदत्तस्य ।
नौ वुर्धान्ये ॥ ४४ ॥ निशब्दे वाचि ह इत्येतस्मात् घञ् भवति धान्यविशेषे वाच्ये । इति वृञोग्रहणम् । नीवारा नाम व्रीहयो भवन्ति । धान्य इति किम् । निवृत इति निवरा कन्या ॥
उदि पूद्रुयोतिश्रिजः ॥ ४५ ॥ ___ उत्पूर्वेभ्यः । द्रु यौति श्रिञ् इत्येतेभ्यः घन भवति । उत्पावः । उद्दावः । उद्यावः । उछायः॥
वाङि रूमवाः ॥ ४६ ॥ श्राङ्पूर्वाभ्यां रु प्ल इत्येताभ्यां वा घन भवति । श्रारामः । आरवः । गौरुव इति नित्यं धन प्राप्तः । आप्लावः । आप्लवः ॥
ग्रहो ऽवे वर्षप्रतिवन्धे ॥ ४ ॥ वेति वर्तते । अवशब्दे वाचि अहेर्वा घन भवति वर्षप्रतिबन्धे वाच्ये । अवग्राहो देवस्य । अवग्रहो देवस्य । वर्षप्रतिबन्ध इति किम् । अवग्रहः पदस्य ॥
प्रे वणिजाम् ॥४८॥ वेति वर्तते । प्रशब्दे वाचि ग्रहेष घन भवति समुदायेनाभिधेयं वणिजां सम्बन्धि चेद्भवति । तुला