________________
mensualohtosamineckedakness
s
जैनेन्द्रव्याकरणम् । चेरिति वर्तते । निवास चिति शरीर उपसमाधान | इत्येतेष्वर्थेषु चिनोतेधन भवति चकारस्य च ककारः। निवासे । साधुनिकायः। उत्कृष्टनिकायः। अधिकरणे घन् । चीयतेऽसौ चितिः । यज्ञे अग्निविशेषः । अकायमग्निं चिन्धीत । शरीरे । चीयते इति कायः । उपसमाधानमुपयुपरि राशीकरणम् । महान् गोमयनिकायः । उपर्युपरीति विशेषणादिह न भवति । महान काष्ठनिचयः । एतेविति किम् । चेयः॥
सङ्कनू? ॥ ४०॥ संघः प्राणिविशेषसमुदायः। अनूदा संधे वाच्ये चिनोतेघन भवति चकारस्य च कत्वम् । निचीयते इति निकाय: । पण्डितनिकायः। प्राणिविशेषस्य ग्रहणादिह न भवति । काष्टचयः । पदसमुच्चयः । विशेषग्रहणं किम् । प्राणिसमुच्चयः । सामान्येन समुदायोऽयम् । अनूदूर्ध्व इति किम् । उपर्यु परि सूकरनिचयः ।
आक्रोशे वन्योर्ग्रहः ॥४१॥ आक्रोशः शपनम् । अव नि इत्येतयोर्वाचोहेर्घ भवति आक्रोशे गम्ये । अवग्राहो ह ते उपल भूयात् । निग्राहो ह ते वृषल भूयात् । आक्रोश इति किम् । अवग्रहः पदस्य । निग्रहो दुष्टस्य ॥
प्रेलिप्सायाम् ॥ ४२ ॥ प्रशब्दे वाचि लिप्सायां गम्यमानायां ग्रहेर्घ भवति । प्रग्राहेण चरति भिक्षः । पात्रं प्रगृह्य अन्नं लिप्सु.
aantumtamsines
eaasaanemasomassmanaswaminaramanarassmenorrenameen
R
Hennanoparmanumarma
-