________________
महात्तिसहितम् न्यायपरिणायपर्यायः ॥ ३३ ॥ न्यायादयः शब्दा: निपात्यन्ते । निपूर्वादिण: अभ्रेषे घञ् निपात्यते । अभ्रेषे युक्तकरणमकुत्सा वा। एषोऽत्र न्यायः। श्रभ्रेष इति किम् । न्ययं गतश्चौरः । परिपूर्वात् नयते तविषये घञ् निपात्यते । परिणायेनसारान् हन्ति । द्यतविषयादन्यत्र परिणयः। परिपूवादिणः अनुपात्यये गम्यमाने घन निपात्यते । अनुपात्ययः क्रमप्राप्तस्यानतिवृत्तिः। तव पर्यायो भोक्तम् । अनुपात्यय इति किम् । स्वाध्यायकालस्य पर्यायः । अतिक्रम इत्यर्थः ॥
व्युपे शीङोन्त्ये ॥ ३७॥ अन्त इति पूर्वसूत्रे विन्यासापेक्षया पर्यायो ऽभिप्रेत: वि उप इत्येतयोर्वाचोः शोहः घञ् भवति पर्याये गम्ये। तवविशायो मम विशायः। तव राजापशायः । राजानमुपशाययितुमवसर इत्यर्थः । अन्त इति किम् । विशयः । उपशयः॥
हस्तादाने चेरस्तेये ॥३०॥ हस्तादाने गम्यमाने चिनातेघञ् भवति न चेत्स्तेय भवति । पुष्पप्रचायः। फलप्रचायः। हस्तादानशब्देन निकटस्य गुञ्छादेग्रहणं लक्ष्यते । हस्तादान इति किम् । पुष्पप्रचयः । अस्तेय इति किम् । पुष्पप्रचयं करोति चौर्येण ॥ निवासचितिशरीरापसमावाने
चः कः ॥ ३९ ॥
-