________________
जैनेन्द्रव्याकरणम् । ३१५ प्रथने वावशब्दे ॥ ३१ ॥ प्रथनं विस्तीर्णता विपूर्वात्स्तृ इत्येतस्मात् घञ् भवति अशन्दविषये प्रथने । पटस्य विस्तारः । गृहस्य विस्तारः। प्रथन इति किम् । तृणविस्तरः । अशब्द इति किम् । वाक्यविस्तरः॥
च्छन्दः खा ॥ ३२ ॥ छन्दः पद्ये वर्णविन्यासः । छन्दःसंज्ञायां च विपूर्वात् स्तृणातेः घञ् भवति । विस्तारः पंक्तिछन्दः । विस्तारः हतिछन्दः । षत्वप्रकरणे विस्तार इति निपात्तनाव सिद्ध छन्दःसंज्ञाज्ञापनार्थ मिदम् ॥
तुश्रुवः ॥ ३३ ॥ वाविति वर्तते । क्ष श्रु इत्येताभ्यां विपूर्वाभ्याँ घञ् भवति। विक्षावः। विश्रावः । वावित्येव । क्षवः । श्रवः।
उदि ग्रहः ॥ ३४ ॥ उत्पूर्वाद् अहेर्घञ् भवति । उग्राहः। अचोऽप वादोऽयम् ॥
समि मुष्टौ ॥ ३५ ॥ संपूर्वाद् अहेर्घञ् भवति मुष्टिविषये। शाकमुप्ठ्यादौ परिमाणवचना मुष्टिशब्दः । तत्र परिमाणाख्यायामित्येव सिद्ध ततोन्यदुदाहरणम् । अहो मल्लस्य संग्राहः । अहो मैाष्टिकस्य संग्राहः । मुष्टेदाव्यमित्यर्थः ।। मुष्टाविति किम् । संग्रहः शास्त्रस्य ॥
-