________________
-
महावृत्तिसहितम् ।
नियोऽवोदाः ॥ २५ ॥ अब उद् इत्येतयोर्वाचोनयते भवति । अवनायः। उन्नायः। कथमुन्नयः। शब्दानां पूर्ववत्करणे घो विधेय॥
निरभ्योः पल्वाः ॥ २३ ॥ निस् अभि इत्येवंपूर्वाभ्यां पू लू इत्येताभ्यां यथासंख्यं घञ् भवति । पू इति सामान्येन ग्रहणम्। निष्पावः। अभिलावः । निरभ्योरिति किम् । पवः । लवः॥
उन्न्योः ॥ २७॥ उद नि इत्येवंपूर्वात् गृ इत्येतस्मात् घञ् भवति । गृइति सामान्येन ग्रहणम् । उद्गारः । निगारः॥
क धान्ये ॥२८॥ उच्योरिति वर्तते । क इत्येतस्माडीः उनिपूर्वात् घञ् भवति धान्यविषये। उत्कारो धान्यस्य । निकारो धान्यस्य । धान्य इति किम् । पुष्पोत्करः । पुष्पनिकरः॥
प्रे दुस्तुत्रवः ॥ २६ ॥ प्रशन्दे वाचि द्र स्तु श्रु इत्येतेभ्यो घन भवति । प्रद्रावः । प्रस्तावः । प्रश्रावः । इति किम् । द्रवः॥
स्त्रोऽयज्ञे ॥३०॥ प्र इति वर्तते । प्रपूर्वात् स्तइत्येतस्मात् घञ् भवति अयज्ञविषये । शंखप्रस्तारः। मणिप्रस्तारः। ऋकारान्तस्वादभिप्राप्त इदम् । अयज्ञ इति किम् । पहिष्प्रस्तरः । | इद्रवोत्यप्युम्मुहुस इति सम्वध्यते ॥
-