________________
जैनेन्द्रव्याकरणम् ।
इङः ॥ २० ॥
इत उत्तरं भावे अकर्तरीति च वर्तते । इङश्च धोर्धञ् भवति । धीयते इत्यध्यायः । उपेत्याधीयतेsस्मादित्युपाध्यायः । अपादाने यो घञ् तदन्ताद्वा ङीव - क्तव्यः । उपाध्यायी । उपाध्याया । डकुमारीवरवाकन्यायेनास्मिन्विषये क्तिमपि घञ् बाधते । श्रृणातेर्वायुवर्णयेोर्घञ् वक्तव्यः । शारो वायुः । शारो वर्णः ॥ गौ रुवः ॥ २१ ॥
३१३
गिसंज्ञे वाचि रौतेर्घञ् भवति । विरावः । संरावः । अचोऽपवादो ऽयम् । गाविति किम् । रवः ॥
समि युद्धदुवः ॥ २२ ॥
संपूर्वेभ्यः गुगु दु इत्येतेभ्यो घञ् भवति । संघाबः । संद्रावः । संदावः । समोति किम् । यवः ॥
यज्ञे स्तुवः ॥ २३ ॥
समीति वर्तते । सम्पूर्वात् स्तातेर्घञ् भवति यज्ञविषये । समेत्य स्तुवन्ति अस्मिन्निति संस्ताव: छन्दागानम् । यज्ञ इति किम् । सतां संस्तवः ॥ श्रिणीभुवोऽगौ ॥ २४ ॥
अगि पूर्वेभ्यः श्रि णी भू इत्येतेभ्यः घञ् भवति । श्रायः । नायः । भावः । अगाविति किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावेो धर्मस्य । प्रकृष्टो भावः प्रभावः इति प्रादिसः । कथं षाड्गुण्यस्य यथावत्प्रयोगेो यथावत्प्रयोगोनयः पुंस्वाधः । प्रायेणेति करणे घो द्रष्टव्यः ॥